पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ नागवृत्तं तु शेषाणामेवमूह्यं पृथक् पृथक् । पार्श्वे प्रतिः सशिखरं मुखपृष्ठं प्रतिद्वयम् ।। १०० ॥ समानं सार्धदण्डं स्यात् प्रत्यास्थ निर्गमोद्गमौ । सर्वत्र प्रत्युपर्येव द्वारं कुर्याद् विचक्षणः ॥ १०१ ॥ प्रतिच्छेदेन तु द्वारं न कुर्वीत कदाचन । प्रस्तराद्यधिकारः । स्तम्भायामे तु दिङ्नन्दवसुसप्तांश के क्रमात् ।। १०२ ॥ नन्दबस्वृषिषद्भागैर्द्वारोित्सेधं प्रकल्पयेत् । तदर्धविस्तृतं च स्याद् द्वारं देवालयेषु वै ॥ १०३ ॥ तद्वंन्नालीगृहव्यासरामभागकभागतः । अर्ध नवांशे पञ्चशैः पञ्चशे वांशकैस्त्रिभिः ॥ १०४ ॥ द्वारोत्सेधो भवेत् तस्मादर्घ विस्तृतिरिष्यते । इति देवविमानद्वाराणि । लब्धोत्सेधे तु दिङ्नन्दवसुसप्तांशके भवेत् ॥ १०५ ॥ सप्तषट्पश्चवेदांशो द्वारव्यासस्तु मानुषः । मानुषद्वारम् । अर्धमण्डनकस्तम्भौ द्वारस्योभयपार्श्वयोः ॥ १०६ ॥ भूषणार्थ स्ववाद्ये तु स्थापयेत् सुविचित्रितो । द्वारव्यासोच्चमखिलमङ्गुलिच्छेदवर्जितम् || १०७ ॥ अलीकृत्य वसुभिवृद्धमर्कातशेषितम् । आयः स्याद् रामवृद्धानि मन्वाप्तानि व्ययः स्मृतः ॥ १०८ ॥ त्रिवृद्धान्यष्टभिर्हृत्वा योनिर्भाप्तमुटुर्भवेत् । पर्यन्ते त्रिंशदाप्ते तु तिथवरं च सप्तभिः ॥ १०९ ॥ आयाधिकानुकूलर्क्ष द्वारं श्रेष्ठं तथा गृहम् । मार्गरूपतरुस्तम्भकोणविद्धमशोभनम् ॥ ११० ॥ १. 'शे' क. पाठः २, 'धैव' ग. पाठ: