पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टोत्तरसहस्रकलशाधिकार:] उत्तरार्धे पञ्चाशः पटलः । एकां । तेस्रश्च पको द्वे निघायासां तु मध्यतः । क्रमेण परितः पर्विसृजेदू वी श्रेषु त्रिषु ॥ ६८ ॥ तद्वाह्ये वेदपङ्खीस्तु त्यक्त्वा पातु मार्जयेत् । वीथ्यर्थं परितः प्राग्वत् पुनः पङ्क्तिद्वयाद् बहिः ॥ ६९ ॥ पङ्क्त्या स्यात् परितो व पद्माच्चतुर्दिशम् । प्रतिपङ्क्तिद्वयं लुम्पेद् द्वारा स्खदिगायतम् ॥ ७० ॥ महावीथी चतुष्कस्य सन्धि: पोडशकेष्वपि । विकारकुम्भन्यासार्थ रक्षेन्मध्यपदानि तु ॥ ७१ || तु द्वारशोभोपशोभाः स्युः कोणानि च यथाक्रमम् | अन्तस्त्रीणि बहिः पञ्च पदानि द्वारि मार्जयेत् ॥ ७२ ॥ शो(भाः ? भा) स्वन्तस्त्रयं बाह्ये चैक कोष्ठं विलोपयेत् । ततस्तु विपरीतेनाप्युपशोभा विमार्जयेत् ॥ ७३ || एवं द्वाराणि चत्वारि शोभा द्वात्रिंशदेव हि । उपशोभाश्च तावत्यः पञ्चावरणसंज्ञिते || ७४ || सहस्रकलशे ज्ञेया यथावदभिसंख्यया । पञ्चावरणे सहस्रकलशाधिकारः । क्षेत्रे त्वेकोनपञ्चाशत्पुटे मध्यगतैः पदैः ॥ ७५ ॥ नवभिः पद्ममालिख्य बाह्ये नितु | वीथी स्यात् परितो बाह्यपी दिवेककोष्ठकम् || ७६ ।। अन्तर्विमृज्य वीथ्यैक्यं नीत्वा तद्वेदकोणके । अन्तःस्थ त्रिपदं लुम्पेत् ततो मध्याम्बुजादू बहिः ॥ ७७ ॥ प्रागुदव्यायते पी) वाथ्यै लुम्पेदशेषतः । तद्ब्राह्ये चापि परितस्ततस्त्रित्रिपदान्तरम् ।। ७८ ।। प्रागुदव्यायता लोप्याः पृथग् द्वादशवीथयः । अत्र स्युर्मध्यमे व्यूहे पञ्चकान्यथ च क्रमात् ॥ ७९ ॥ तद्वाह्ये नवकानि स्युर्द्वादशैवं चतुर्ष्वपि । चतुर्ष्वपि च कोणेषु विकारनवकं पृथक् ॥ ८० ॥