पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ ईशानशिवगुरुदेवपद्धतौ एवं तु नवकानां स्याच्छतं हि द्वादशाधिकम् । अथैकं बाह्यनवकं चतुर्दिक्षु विलोपयेत् ॥ ८१ ॥ द्वारार्थं + + + + + + न्त्यकोणैक कोष्ठकम् । वलुम्पेत् कोटिमध्यस्थमेवं पदसहस्रकम् ॥ ८२ ॥ अष्टोत्तरं हि भवति मध्ये चैकं सरोरुहम् । बाह्ये वीथ्यास्ततो बाह्ये शिष्टपतिद्वयेन तु ॥ ८३ ॥ द्वारशोभोपशोभार्थं + + ++++++1 भवन्त्याकृतिस + न कलशास्तत्पुटेषु वै || ८४ || अष्टोत्तरसहस्रं हि पद्मे शिवघटस्तथा । अष्टोत्तरसहस्रकलशाधिकारः । [क्रियम्पाद: त्रिपञ्चाशत्पुटे क्षेत्र मध्यस्थनवकेंऽम्बुजम् ॥ ८५ ॥ तद्वाह्यपङ्क्त्या परितो++++++बहिः। पङ्क्तौ दिक्कोष्ठमेकैकं लुम्पेद् द्वारप्रसिद्धये ॥ ८६ ॥ चतुर्ष्वपि च कोणेषु पृथक् स्यात् कोष्ठपञ्चकम् । तद्वहिः परितः पङ्क्ति वीथ्यर्थं परिमार्जयेत् ॥ ८७ ॥ द्वारशोभादिसिद्ध्यर्थं + + + + द्वयं न्यसेत् । तदन्तरेका परितो लोप्या स्तुि वीथये ॥ ८ ॥ अन्तर्वार्थी समारभ्य दिक्षु पङ्क्तित्रयं त्रयम् । विमृजेद् द्वारवीथ्यर्थं बाह्ये वथ्यां च योजयेत् ॥ ८९ ॥ बाह्यवीथ्यास्त्वथान्तःस्थपङ्क्षिट्कादनन्तरम् । अन्तस्त्रिपङ्कीः परितो महावीथीस्तु मार्जयेत् ॥ ९० ॥ तत्राष्टदिक्षु मध्यस्थपको मध्यपदानि तु । रक्षेदष्टदिशास्वष्टौ तेषु सन्धिघटान् न्यसेत् ॥ ९१ ॥ बहिवथी महावीथ्योर्मध्यषट्पङ्क्तिमध्यतः । तत्त्वकोष्ठानि संस्थाप्य लोप्यं पतिद्वयं क्रमात् ॥ ९२ ॥ एवं कृते तु परितः षत्रिंशत्कोष्ठकानि तु । कृतिसंख्यानि तन्नन्दपदान्यन्तर्विलोपयेत् || ९३ ॥