पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हाधिकारः] उत्तरार्धे पञ्चाशः पटलः । ‘कोणेष्विति यावत् । अथान्तःस्थचतुष्कोणव्यूहान्तर्व्यूहसिद्धये । त्यक्त्वा पङ्क्तित्रयं बाह्ये पङ्क्किमेकां विलोपयेत् ॥ ९४ ॥ तदन्तर्वेदकोणेषु पदाष्टशतकं भवेत् । तृतीयवीथेः प्रारभ्य परेिका यथाक्रमम् || ९५ ।। मध्ये लोप्या महावीथिर्यावत् तावद् विनिर्गता । ततस्तु तत्त्वकोष्ठानां द्वादशात्र भवन्ति हि ॥ ९६ ॥ अन्तःकोणेषु तेषां च नन्दकोष्ठानि मार्जयेत् । (हन्तव्यूहे ? अन्तर्व्यूहे) क्वतिघटा (नू ?) द्वितीये साष्टकं शतम् ॥ · तृतीये त्रिशतं चाथ ससंकृत्युत्तरं घटाः । सन्धिष्वष्टौ चतुर्थे तु चत्वारिंशघटादिकम् ।। ९८ ।। शतानि पञ्च कुम्भानामेवं कुम्भसहस्रकम् । चतुरावरणे ज्ञेयं मध्ये शिवघटोऽधेिकः ॥ ९९ ॥ बाह्य पङ्किद्वये प्राग्वद् दिक्षु द्वारचतुष्टयम् । शोभा द्विचत्वारिंशत् स्युरुभशोभाश्च तत्समाः || १०० ॥ कोणानि मनुकोष्ठैः स्युः प्राग्वत् तान्यपि मार्जयेत् । लाङ्गलाकारकोणानि सर्चव्यूहे तु कल्पयेत् ॥ १०१ ॥ चतुरावरणे सहस्रकलशाधिकारः । ४८९ क्षेत्रे तु सूत्रिते पञ्चपञ्चाशत्पुटके समे । एकाशीतिपदं मध्ये संस्थाप्य नव संपुटान् ॥ १०२ ॥ प्राचीनाश्चाप्युदीचीना लोप्याः षड् वीथयः पृथक् । एकाशीतिपदव्यूहास्त्वेवं स्युः पञ्चविंशतिः ॥ १०३ ॥ पर्यन्वीथी बायुमेन पूर्ववत् । द्वाराणि दिक्षु चत्वारि शोभाश्चैवोपशोभिकाः ॥ १०४ ।। चत्वारिंशत् पृथक् कार्याः कोणानि मनुकोष्ठकैः । मध्यव्यूहस्य मध्यस्थनबकेनाम्बुजं लिखेत् ॥ १०५ ॥