पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे पञ्चाशः पटलः । + + + स्तं विधायाथ सामान्यार्थ्यकरः क्रमात् । प्राग्वच्छान्तिकलादीनि द्वाराणि कुसुमादिभिः ॥ ११९ ॥ सधारणकमाधिकारः] इष्ट्वा क्षिप्त्वा च नाराचं प्राग्वदन्तः प्रविश्य तु | 'अ विन्यस्य देहल्यां वास्तुपा + ++ ++ ॥ १२० ॥ अभिपूज्यासनं च स्वं प्राङ्मुखो वाप्युदङ्मुखः । कलशांस्तु यथोद्दिष्टांनवोक्ष्यार्थ्यजलैः क्रमात् ॥ १२१ ॥ उदङ्मुखोकृत्योत्कूर्चान् (!) सदाशिवतनुः स्वयम् | आधारशक्तिं कलशं ++++++++॥ १२२ ॥ द्वादशान्ताम्बुजेन्दूत्थममृतं तज्जलादिकम् । भावयन् प्रणवं सृष्टिक्रमेणोच्चारयन् क्रमात् || १२३ ॥ कलशान् पूरयित्वा तु प्रोक्तद्रव्यसमन्वितान् । सहेमगन्धकुसुमान् सितवस्त्रावृतान् पृथक् ॥ १२४ ॥ लग्दामालङ्कृतानुक्तबिल्वाश्वत्थ + + यवान् । सशालितण्डुलापूर्णफलोपेतविधानकान् ॥ १२५ ।। सम्प्रोक्ष्यतेषु विन्यस्य तत्तन्मन्त्रं च दैवतम् । देष्ट्वा पञ्चोपचारैतान् होमं कुर्याद् यथोदितम् ॥ १२६ ॥ अस्पादिकानां स्नानानामष्टोत्तरशतावधि | एकामावेव होतव्यं प्राकुण्डे स्थण्डिलेऽपि वा ॥ १२७॥ ततः सप्तशतान्तानां चतुर्दिक्षु हुतं स्मृतम् । अथाष्टोत्तरसाहस्रे सहस्रकलशेऽपि च ॥ १२८ ।। अष्टदिक्षु प्रतिष्ठोक्तकुण्डेप्वाधाय पूर्ववत् । शिवानलं तु मध्यामेर्विभज्य यथाविधि || १२९ ॥ स्वदिक्षु ब्रह्मभिश्चाङ्गैर्जुहुयुर्गुरुमूर्तिपाः । ब्यूहैकविंशतिर्यत्र 'सहस्रकलशे स्मृता ॥ १३० ॥ तंत्र दिक्ष्वष्टकुण्डेषु तथैवान्तश्चतुर्दिशम् । व्यूहेषु मार्जितेष्वभि॑ जुहुयाद् ब्रह्मभिः क्रमात् ॥ १३१ ॥ समिदाज्यचरून् लाजान् सिद्धार्थीच तिलान् यवान् । सतत्कलशसंख्यातमर्धं पादमथापि वा ॥ १३२ ॥