पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ मूलेन हुत्वा मूर्त्यज्ञैर्जुहुयुस्तद्दशांशतः । तत्सम्पात घृतं सर्वमेकीकृत्य कुशाग्रतः || १३३ ।। कलशेषु क्षिपेत् किञ्चिन्निवेद्यान्तं यजेत् पुनः ! सर्व कर्मेति सामान्यं स्नपनानामुदीरितम् ॥ १३४ ॥ साधारणकर्माधिकारः । द्रव्यदैवतमन्त्रास्तु स्नपनानां यथाक्रमम् । लिख्यन्ते नवकादीनां शैवतन्त्रप्रचोदिताः || १३५ ॥ माणिक्यं मौक्तिकं वज्रं प्रवालं च हरिन्मणिः पुष्यरागश्च वैडूर्ये नीलं गोमेदकं क्रमात् || १३६ ।। मध्येन्द्रयाम्याप्यसौम्यवह्निरक्षोनिलेशगान् । कलशान् मणिभिश्चोक्तैर्गन्धपुष्पकुशाम्बुभिः ॥ १३७॥ ईशादिब्रह्मभिश्चाङ्गैरभिपूर्याभिषेचयेत् । मध्यादिपूरणे त्वैन्द्रान्मध्यान्तस्नपने क्रमः ॥ १३८ ॥ अस्त्रं चैवास्त्रवर्धन्यां शिवकुम्भान्तिके यजेत् । पुष्पाम्बुधूपान्तरितं चतुष्कानन्तरं यथा ॥ १३९ ॥ आपोराजानमाद्याद् वा मध्येन व्योमविद्यया । नवकस्य । पञ्चविंशतिकस्यापि पञ्चरत्नाम्बु मध्यतः ॥ १४० १॥ पूरयेद् ब्रह्मकलशे शिवेन समधिष्ठिते । पाद्यमाचमनं चाये पञ्चगव्यं दिशास्वथ || १४१ ॥ आमेया दिपदेष्वाज्यं मधु क्षीरं तथा दधि | पूर्वत्रिके चेक्षुरसकषायाम्बु फुलाम्बु च ॥ १४२ ॥ चतुःक्षीरागबिल्वानां त्वग्भिः सिद्धं कषायकम् । लाजाम्बु चैव गन्धाम्बु पुष्पाम्भश्चैव दक्षिणे ॥ १४३ ॥ हेमाम्भः पद्मरागाम्भो मुक्ताम्भ: पश्चिमे त्रिके । यवोदकं प्रवालाम्बु तिलाम्भश्चोत्तरात्रके ॥ १४४ ॥ दूर्वोत्पलकुशाम्भांसि शाल्यम्भश्चानलादिषु । मूलं ब्रह्माणि चानानि मध्ये मन्त्राश्य दैवतम् ॥ १४५ ॥