पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ मध्यस्थनवकुम्भेन रुपयेद् व्योमविद्यया । अथवा सर्वकुम्भैश्च संहितामनुभिः क्रमात् ॥ २३८ ॥ ब्रह्मभिः शिवंगायत्र्या सावित्र्या व्योमविद्यया । अभिषिश्चेद् गुरुर्देवं तत्तत्सूक्तान्यनुक्रमात् ॥ २३९ ॥ अष्टौ मूर्त्तिधरा विप्रा जपेयुः परितः स्थिताः । कुशकूर्णैस्तु कलशान् संस्पृशन्तस्तथा शिवम् ॥ २४ ॥ अष्टाधिकपञ्चशतस्य । अथ सप्तशते विंशत्यधिके मध्यमं घटम् । हेमरलैश्च शुद्धाद्भिः पुरयेत् संहिताजपात् ॥ २४१ ॥ द्वासप्ततिं तु कलशांस्ता ह्ये नवकाष्टके | तावद्द्रव्यैः क्रमान्मन्त्रैरष्टोत्तरशतोदितैः ॥ २४२ ॥ बाह्ये द्वासप्ततिव्यूहान् क्रमादावरणत्रये । तेषां नवकमध्यस्थकुम्भास्तावन्त एव हि ॥ २४३ ॥ तेषु द्रव्याणि तावन्ति क्रमात् तान्येकशः क्षिपेत् । द्रव्यद्वादशकं शिष्टं कोणेष्वावरणत्रये || ९४४ ॥ क्रमाद् द्वादशकुम्भेषु शार्वाशान्तं विनिक्षिपेत् । मध्यादिकेषु व्यूहेष्वप्येकाशीतिप्रसङ्ख्यया ॥ २४५ ॥ व्योमव्यापिपदान्येषु क्रमात् तावन्ति विन्यसेत् । तत्तदुद्दिष्टमध्वानं षड्डिधं चैषु योजयेत् ॥ २४६ ॥ संपूज्य च विधानेन महत्या व्योमविद्यया । अभिषिञ्चेद् गुरुर्देवं रुद्रेण ब्रह्मभिस्तथा ॥ २४७ ॥ प्राग्वन्मूर्तिधरा विप्राः कद्रुद्रं पौरुषं ततः । श्रीसूक्तं पवमानं च जपेयुः कूर्चपाणयः ॥ २४८ ॥ विंशत्यधिकसप्तशतस्य । पञ्चावरणयुक्तस्य सहस्रकलशस्य तु । गन्धकाञ्चनरत्तैश्च कुशतीर्थजलैर्घटम् ॥ २४९ ॥ शिवाख्यं पूरयेन्मध्ये ताह्यघटविंशतेः । अग्न्यादिकोणकुम्भांस्तु पाद्याचामार्ध्यगव्यकैः ॥ २५ ॥