पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चाशः पटलः । । शिष्टान् दुग्धघृतक्षौद्रदधीक्षुफलवारिभिः कषायतोयगोमूत्रपुष्पगोमयकाञ्चनैः || २५१ || पृथग् बिल्वस्य पञ्चाङ्गैः सहाम्भोभिः प्रपूरयेत् । प्रथमावरणस्य | पेशावरण सहस्रकलशाधिकारः] अथ द्वितीयावरणे दूर्वायवतिलाम्बुभिः ॥ २५२ ॥ शाल्युत्पलत्रयाम्भोभिश्चतुःक्षीरनगरैः । जम्बूशिरीषपालाशसप्तपर्णासनार्जुनैः ॥ २५३ ॥ प्रियङ्गुमाषगोधूममुद्गसर्षपवैणवैः निष्पावकमहाव्रीहिश्यामाकाणुगवीधुकैः ॥ २५४ ॥ मसूरककुळस्थैश्चाप्याढकीभिश्च जर्तिलैः । सिद्धार्थैरपि नीवारैः पूरयेत् तु यथाविधि ॥ २५५ ॥ ततो विशुद्धदेशस्थनदीवल्मीकतीर्थजाः । बृ(षभे षेभ) गिरिशृङ्गेभ्यः कुली (रे? र) क्षेत्रयोर्मृदः ॥ २५६ ॥ पलाश कुशबिल्वानां क्षीरागानां च मूलतः । वेद्या वराहक(ष्टै? ष्टा) श्च मृदो देवगृहस्य च ॥ २५७ ॥ कुमुदोत्पलपद्मानां मूलेभ्यो मृत्तिकाः पृथक् । चम्पकद्वयमुन्मत्तत्रयं वै पाटलं यबम् || २५८ ।। अशोकद्रोणकुसुमकरवीरचतुष्टयम् । पद्मद्वयं व कुमुदद्वयं वै तुलसीद्वयम् ॥ २५९ ।। शतपत्रं कुब्जकं च माधवी मल्लिकाद्वयम् | सप्तकालं च नारं च पुष्पे पुन्नागनागयोः ।। २६० ॥ राजा धवलार्क च कल्हारेन्दीवरे तथा । सितारुणे च मन्दारे कर्णिकारं महामरी ॥ २६१ ।। आर्ति कुसुम्भकुसुमं सितकृष्णापराजिते । पलाशपुष्पं बकुलं नन्द्यावर्त कदम्बकम् || २६२ ॥ दमनं पद्मतुलसी मुण्डी कुरवकं तथा । हीरिबेरं मरुवर्क मुस्ता ग्र (न्थी ? [न्थि ) रुशीरकम् ॥ २६३ ।।