पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ बृहत्यारग्वधौ जम्बूपल्लवं चूतपल्लवम् । अरुणागस्तिकुसुममाम्रपुष्पं च चोरकम् ॥ २४ ॥ शेफालीकुसुमं लक्ष्मी सहदेवी कृताञ्जलिः | सीतेन्द्रवल्ली मुसलीभद्रे दूर्वाद्वयं तथा ॥ २६५ ।। हरिक्रान्ता भृङ्गराजद्वयं चैकदाम्बुजम् । भूकदम्ब इतीमानि द्वात्रिंशदधिकं शतम् ॥ २६६ ॥ द्वितीयावरणस्य | तृतीयेऽपि च माल्यङ्गं शमीपुष्पं च तद्दलम् । अपामार्गः शङ्खपुप्पं तापिञ्छं च तमालकम् ॥ २६७ ॥ ब्राह्मी रुद्रजटा सूर्यवर्तिनी च सुवर्चला । बनमाला तथा श्यामा पट्टी रावणबिल्वकम् ॥ २६८ ॥ कर्पूरवल्लिका सोमवल्लो धाज्यङ्करं तथा । दुर्वासनप्रसूने द्वे बकपुष्पं तथार्जकम् ॥ २६९ ॥ कुटजं सरलं कुष्ठं चन्दनं रक्तचन्दनम् । कुङ्कुमं च मुरं मांसी कर्पूरं चागरुद्वयम् ॥ २७० ॥ जातीफलं च मञ्जिष्ठा देवदारुश्च रोचना | खषं चषालपद्माक्षौ गन्धामलकगन्धकाः ॥ २७१ ॥ एलालवङ्गतकोलहरितालमन शिशलाः । गैरिकं माक्षिकं काक्षी सिन्दूरं दरदं शिखा || २७२ ॥ अयस्तीक्ष्णमयस्कान्तस्ताग्रं त्रपु च पित्तलम् । सीसकं रजतं स्वर्ण वैक्रान्तं चाम्रकत्रयम् ॥ २७३ || (सौ:सू) र्येन्दुकान्तौ स्फोटिकं लोहं तुत्थं च कांस्यकम् । नालिकेराम्रपनसरम्भालिकुचडाडिमाः ॥ २७४ ॥ मातुलुङ्गं च जम्बीर बैल्बमातुण्डिका फलम् । पूगं च बदरं द्राक्षा नारङ्गामलकीफले ॥ २७५ ॥ मधूकब्रह्मवृक्षौ च श्रीपर्णीखदिरावपि । पद्मकं सर्जलोधौ च रौहीतकविकङ्कतौ ॥ २७१ ॥