पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५०४ ईशानशिवगुरुदेवपद्धतौ अध्यानोऽपि पुनश्चैषु मध्याद्येषु स्थिताः क्रमात् । मध्यमे शिवकुम्भे तु सर्वेषु कलशेष्वपि ॥ २८९ ॥ स्मर्तव्याः स्युः षडध्वानः समष्टिव्यष्टिमार्गतः । सर्वत्रापि च कुम्भेषु स्वर्ण माषमितं क्षिपेत् ॥ २९० ॥ तदर्धे वाप्यतोऽर्ध वा श्रेष्ठमध्यावमक्रमात् । निष्ठा मध्ये शिवघटे क्षिपेत् ॥ २९१ ॥ सामान्यं सर्वकुम्भानां गव्यमध्वक्षवं विना । पूरणं शुद्धतोयेन वस्त्र कूर्चं च काञ्चनम् || २९२ || पलवानि पिधानं च गव्यादीनां च तत् समम् । पञ्चावरणसहस्रकलशाधिकारः । अष्टोत्तरसहस्रस्य प्राग्वच्छिवघटं जलैः ॥ २९३ ॥ सरत्नहेमन्वैस्तु समापूर्य यथाविधि । पूर्वादिदिक्पञ्चकेषु द्रव्यैर्विंशतिभिः क्रमात् ॥ २९४ ॥ पूर्ववत् पूरयेन्मन्त्रैः पञ्च कान्यानलादिषु । शुद्धाम्भोभिः सकर्पूरैः पूरयेत् कुसुमान्वितैः ॥ २९५ ॥ मध्यमव्यूहस्य | बाह्ये द्वितीयव्यूहे तु विकारनवकानि तु । तृतीयावरणप्रोक्तर्मास्यायैः प्रपूरयेत् ॥ २९६ ॥ द्वितीयव्यूहस्य | अथ तृतीयव्यूहे तु चतुर्दिनवकानि तु । दूर्वादिनीवारान्तैस्तु द्वितीयावरणोदितैः ।। २९७ ।। पद्माक्षरुद्राक्षाभ्यां च तत्त्वद्रव्यैस्तु पूरयेत् । शिष्टाशीतिप्रसंख्यानां नवकानां यथाक्रमम् || २९८ ।। मध्यकुम्भांस्तु तावद्भिद्वितीयावरणोदितैः । नदीमृदादिकैर्द्रव्यैः पूरयेद् व्योमविद्यया ॥ २९९ ॥