पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सहस्रकलशेषु मन्त्रदेवताविधिः] उत्तरार्धे पञ्चाशः पटलः । अष्टद्रव्यैस्ततः शिष्टैर्द्वारकुम्भान् यथापुरम् । आपूरयेत् तु मूर्तीशमन्त्रैरष्टाभिरेव तु ॥ ३०० ॥ अष्टोत्तरसहस्रकलशानाम् । चतुर्व्यूहेऽपि मध्यस्थकुम्भं प्राग्वत् प्रपूरयेत् । ततस्त्रयाणां व्यूहानां दिक्कोणान्तांस्तु दिविस्थतान् || ३०१ ॥ व्यूहेषु लाङ्गलाभेषु कलशान् पूर्ववत् क्रमात् । पूर्वोक्तद्रव्यमन्त्रैश्च सन्धिस्थानपि पूरयेत् || ३०२ || पश्चावरणवत् सर्वै देवताध्वादिकं स्मृतम् । चतुरावरणसहस्रकलशाधिकारः । एकविंशतिके व्यूहे मध्यकुम्भं च तद्वहिः || ३०३ ॥ विंशतिं मध्ममव्यूहे प्राग्वद् द्रव्यैस्तु पूरयेत् । तद्धाच्चविंशतिव्यूहमध्यस्थकलशांस्ततः ॥ ३०४ ॥ दूर्वादिविंशतिद्रव्यैर्गोधूमान्तैः प्रपूरयेत् । ततोऽष्टदिक्षं व्यूहानां बाह्यावरणगान् घटान् ॥ ३०५ ॥ अष्टाविंशतिसंख्यांस्तु प्रतिव्यूहं क्रमेण तु । मुगादिभिस्तु तावद्भिरुक्तैर्द्रव्यैः प्रपूरयेत् ॥ ३०६ ॥ अन्तर्व्यूह चतुष्कस्थकुम्भान् कुङ्कुमवारिभिः । सहिरण्यैः समापूर्य पार्श्वव्यूहाष्टकं बहिः ॥ ३०७ ॥ गोमूत्रगोमयक्षीरदध्याज्यैक्षवमाक्षिकैः । नालिकेरपयोभिश्च क्रमेणैवाभिपूरयेत् ॥ ३०८ ॥ अथाष्टदिक्षु व्यूहानामन्तरा प्रतिविंशतेः । चतुष्कोणस्थकलशाञ् शिष्टैर्द्रव्यैस्तु पूरयेत् ।। ३०९ ।। एकविंशतिव्यूहस्य | सहस्रकलशानां तु पृथगावरणक्रमात् । दैवतानि च मन्त्राश्च कथ्यन्ते कमशोऽधुना ॥ ३१० ॥ नवव्यृहादिकानां च व्यूहैरावरणानि तु । पञ्चधा पृथगूह्यानि पञ्चावरणवत् क्रमात् ।। ३११ ।।