पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अभयं शक्तिशूलेषुकुलिशं चाङ्कुशं करैः । दक्षिणे धारयंस्तद्वत् कटिस्पर्शिवरप्रदम् || ६ || दण्डं च तोमरं चापं घण्टां पाशं च वामतः । अधोहस्तात् प्रभृत्यूर्ध्वं स्याद् द्वादशभुजो विभुः ॥ ७॥ अभयं पङ्कजं शक्तिं दक्षिणे वरतोमरे । कुलिंशं षड्भुजो बिभ्रत् कर्तव्यः षण्मुखो विभुः ॥ ८॥ दक्षिणे पङ्कजं शक्ति मातुलुङ्गं च वामतः । पाशं च बिभ्रत् षड्वक्त्रस्त्वेकास्यो वा चतुर्भुजः ॥ ९ ॥ द्विभुजवेद् गुहः शक्तिकटिस्पृ वरदान्वितः । शक्तिवज्रधरो वा स्याद् दण्डशक्तिवरोऽथचा ॥ १० ॥ प्रसन्नवदना रक्ता रक्ताकल्पविभूषिताः । मौलिकुण्डळहाराद्यैर्युक्ताः स्युः स्कन्दमूर्तयः ॥ ११ ॥ एका मूर्तिस्त्वेकचेरे प्रतिष्ठाप्या भवेद् यदा | बहुतेरे प्रतिष्ठाप्याः षड् वा द्वादश मूर्तयः ॥ १२ ॥ वरदश्च यशोदश्च पुष्टिदः श्रीप्रदः क्रमात् । प्रागादि तोरणानि स्युकेशास्त्राङ्किता ध्वजाः ॥ १३ ॥ बीरसेन महासेनौ भद्रसेन सुषेणकौ । चारुसेनश्च सेनानीः पूर्णसेनस्ततः परम् ॥ १४ ॥ चित्रसेनश्च कुम्भस्था द्वौ द्वौ द्वाः स्थास्तु पूर्वतः । प्रतिद्वारं लाजकुम्भौ बीजाङ्कुरघटावपि ॥ १५ ॥ निघाय विकिरक्षेपात् कुम्भास्त्रे पूजयेदपि । दूर्वा कुशाग्र माषाश्च श्रीयस्तण्डुकास्तिलाः ॥ १६ ॥ सिद्धार्थास्तुलसी चेति स्कन्दस्य विकिराः स्मृताः | कुम्भे स्कन्दं मयूरस्थं कुक्कुटेऽत्रं च वर्धनीम् ॥ १७ ॥ इवा प्राग्वत् परिश्रम्य प्राग्वत् स्वीकृत्य मण्डपम् । विशोध्य स्वाकरं नेत्रमोक्षं तोयाभिवासनम् ॥ १८ ॥ श्रामभ्रमं च स्वपनं शयनं च विधाय तु । बेषां कुमारकुम्भास्त्रे मूर्तिकुम्भ षण् न्यसेत् ॥ १९ ॥