पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुल्डवपद्धती सिञ्चेयुः स्कन्दगायत्र्या भागेषु गुरुमूर्तिपाः । बाह्येऽथ मण्डपादू दिक्षु मन्त्रैर्लोकेशदैवतैः ॥ ३४ ॥ समिदाज्यतिलाल्लाँजांश्चरुं च जुहुयुः पृथक् | नैर्ऋत्यां चापि वायव्यां बिल्वकामरिसम्भवाः ॥ ३५ ॥ समिधो जुहुयाच्यास्त्राचरुं चाष्टोत्तरं शतम् । बेरस्य वामतः पीठे क्रियाशक्तिं निधाय तु || ३६ ॥ अधिवास्य ततः प्रातः कृतनित्यक्रियो गुरुः । गर्भागारं प्रविश्याथ लग्ने कूर्मशिलां न्यसेत् ॥ ३७॥ तष्टाधारशक्किं तु रत्नाद्यं वर्गपञ्चकम् । तस्यां विन्यस्य गर्तेषु मध्ये प्रागादिदिक्ष्वपि ॥ ३८ ॥ हैमं गजं मयूरं च शक्ति वज्रं च कुक्कुटम् । पद्मं रसं च माणिक्यं मध्याद् बाचे मान्न्यसेत् ॥ ३९ ॥ ऊर्ध्वं तस्यास्तथा पीठे क्रियाशक्तिं च विन्यसेत् । युवं वस्त्रादिनाच्छाद्य बहिर्निर्गत्य देशिकः ॥ ४० ॥ बेरं प्रवेश्य लभे तु गुरुर्मूर्तिधरैर्युतः । ध्रुवाचौरादिना पीठे प्रतिष्ठाप्य स्थिरं यथा ॥ ४१ ॥ ज्ञानशक्त्यात्मकं ध्यात्वा मूर्ति विन्यस्य षण्मुखीम् । तस्यामाबाहयेद् देवं मन्त्रैरेभिरनुक्रमात् ॥ ४२ ॥ आयाहि स्कन्द ! भद्रं ते कुमार ! शिवसम्भव ! | मयूरवाहन ! विभो इह बारणवाहन ! ॥ ४३ ॥ सुब्रह्मण्य ! नमस्तेऽस्तु कार्तिकेय ! सुरेश्वर! | देवसेनापते ! देव ! असुरेन्द्र विमर्दन ! ॥ ४४ ॥ शक्तिवज्रायुधधर ! धृतदण्डवराङ्कुश ! |

सचक्रतोमर ! विभो ! असुरेन्द्रविमर्दन ! ॥ १५ ॥ आवाहयामि त्वां देवेत्यन्ते मूलाइसंयुतम् । उच्चार्यं स्वहृदम्भोजात् परं तेजो गुहात्मकम् || १६ |