पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धता ऐशान्यां पुष्पदन्तश्च शङ्कुकर्णजयावपि । महाजयश्च चत्वारः कोटिकोटिगणेश्वराः ॥ ८६ ।। एतेभ्यश्चाप्यथैतेषां परिषद्भ्यस्त्वनन्तरम् । स्कन्दपारिषदान्ते तु स्वाहान्तं तु बलिं क्षिपेत् ॥ ८७ ॥ उद्दिष्टदिवसान्ते तु कौतुकारम्भपूर्वकम् । तीर्थयात्रां च कुर्वीत यथापूर्वी निमन्त्र्य तु ||८८ ॥ तीर्थयात्रा त्वया देव ! श्वः कर्तव्या सुरेश्वर ! | तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि ॥ ८९ ॥ इत्यामन्त्र्य गुहं देवं शैवोत्सव विधानतः । तीर्थयात्रां स्वकैर्मन्त्रैः कृत्वा प्रतिनिवृत्य तु ॥ ९० ।। अन्तः प्रवेश्य षड्वक्रं विशेषयजनादनु । निशि भूतबलिं दत्त्वा मुख्यादिस्नपनेन तु ॥ ९१ ॥ यथोपपस्या रुपयेच्छवस्त्रपन चोदितैः । मन्त्रैर्यथाबद् विधिवन्महापूजां प्रवर्तयेत् ॥ ९२ ॥ पूर्वोक्तफलमाप्नोतत्याह देवः स्वयं शिवः । इति प्रतिष्ठादिकमुत्सवान्तं षडास्यतन्त्रं तु यथावदुक्तम् । यथा बृहत्तन्त्रमुखेषु दृष्टं तदुक्त शैवानुगुणेन विद्यात् ॥ ९३३ ।। इति श्रीमदीशानशित्रगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे किया पादे स्कन्द तन्त्र पटलत्रिपञ्चाशः || अथ चतुष्पञ्चाशः पटलः । हरनारायणस्याथ प्रतिष्ठाद्यं निगद्यते । मन्त्रश्च वान्तो बिन्द्वन्तो ब्रह्माथाग्निश्च पञ्चमात् ॥ १ ॥ अन्तो दीर्घः सदीर्घोऽग्निर्वायुस्तादिश्च दीर्घयुक् । नमोन्तस्तु दशार्ण: स्यात् तारशक्तिरवादिकः ॥ २ ॥ त्रयोदशाक्षरो ह्यस्यच्छन्दोऽतिजगती मता । ऋषि । दैवं तु देवो हरहरिः स्वयम् ॥ ३ ॥ दीर्घस्वरैः शक्तिबीजं नामजातियुतं च तत् । हृदाद्यजानि षट् तेन शस्त्रान्तानि तु कल्पयेत् ॥ ४ ॥