पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

शंकरनारायणप्रतिष्ठाधिकारः] उत्तरार्धे चतुष्पञ्चाशः पटलः । अथ लग्ने प्रविश्यान्तः प्राग्वत् कूर्मशिलां न्यसेत् । तस्यां च धारिणीं शक्तिं तत्त्वतत्त्वेश्वरादिभिः ॥ ३३ ॥ रत्नादिपञ्चवर्गीश्च तदूर्ध्वं तु यथापुरम् । विन्यस्य पीठं तत्स्थां च क्रियाशक्तिं च शक्तिभिः ॥ ३४ ॥ लग्ने देवं प्रतिष्ठाप्य ज्ञानशक्त्यात्मकं विभुम् । मूलेनावाह्य तन्मूर्ति मन्त्रदेहं च भावयेत् ॥ ३५ ॥ तथैव विमलं ज्योतिस्तस्यैव हृदयाम्बुजे । प्रोक्तत्रिीबीजपुटितं हंसं स्वहृदयाम्बुजात् ||३६ ॥ नीत्वा व्योमाब्जचैतन्यं मूर्तिहत्यजे न्यसेत् । ततः प्रक्षाल्य संज्ञाप्य वेदिकुम्भास्लवारिभिः ॥ ३७ ॥ अनन्ताद्यष्टकुम्मैश्च ततो न्यभ्यत् षडध्वनः । स्वमूलाङ्गैः स्वगायत्र्या ब्रह्मभिः प्रणवादिभिः ॥ ३८ ॥ नमो भगवतेयुक्तैर्वासुदेवादिनामभिः । चतुर्थ्यन्तैस्तु निर्दिष्टो मन्त्राध्वाथ पदैरपि ॥ ३९ ॥ गायत्र्यास्तु पदाध्वा स्याच्छेषाध्वानो यथापुरम् । ततः स्थिरादिभिर्मन्त्रैर्हुत्वा स्पृष्ट्वाय पूजयेत् ॥ ४० ॥ आसनादिक्रमेणोक्तैरुप चारैर्यथाक्रमम् । तद्यथा विघ्नेश्वरं गुरुं चेष्ट्वा सकलीकृत्य विग्रहम् ॥ ४१ ॥ सामान्यार्थ्यकरो द्वारस्योर्ध्वोदुम्बरपार्श्वयोः । विघ्नं सरस्वतीं गङ्गां यमुनां मध्यतः श्रियम् ॥ ४२ ॥ नन्दीशं चैव चण्डं च द्वाःस्थौ द्वारोत्तरस्थितौ । महाकालं प्रचण्डं च यजेद् द्वारस्य दक्षिणे ॥ ४३ ॥ नाराचास्त्रं क्षिपेच्चान्तः प्रविश्यास्त्रं निधाय च । वास्त्वीशं वेधसं मध्ये तथानन्तासनं यजेत् ॥ ४४ ॥ पञ्चशुद्धीविधायाथ तिलकीपुष्पशेखरः । मूलाङ्गैरर्थ्यमापाद्य जलक्षीरकुशाक्षतैः ॥ ४५ ॥ -