पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ यवचन्दनसिद्धार्थैः पुष्पैरपि च पूजयेत् । तत्प्रोक्षितात्मद्रव्यादिरस्त्रप्राकाररक्षितः ॥ १६ ॥ आधारशक्तिं कूर्म चाप्यनन्तासनमेव च । धर्मादीनप्यधर्मादीन् मायां विद्यां गुणत्रयम् ॥ ४७ ॥ पैत्रादिव्याप्तसूर्यादिबिम्बाद्यष्टदलाम्बुजम् । द्वे द्वे केसरयोः शक्तीर्वामाद्या विमलादिकाः ॥ ४८ ॥ ओं वामाबिमलाभ्यां नम इति पूर्वदलकेसरादिषु । पूर्वादिक्रमतो मध्ये मनोन्मन्यात्वनुग्रहात् (?) । तत्कार्णिकायां तन्मूर्तिं विद्यामन्त्रतनुं तथा ॥ ४९ ॥ दृष्ट्वा हृदम्बुजात् प्राग्वद् ब्रह्मज्योतिः शिवात्मकम् । आवाहनस्थापने च सान्निध्यं सन्निपातनम् ॥ ५० ॥ प्ररोचनामृतीकारौ कुर्यादप्यवगुण्ठनम् । तन्मूलाङ्गैश्च गायत्र्या सकलीकृत्य तु क्रमात् ॥ ५१ ॥ ध्यायेच्चतुर्भुजं देवं हरनारायणं विभुम् । दक्षिणे शूलटङ्कौ च शङ्खचक्रे च वामतः ॥ ५२ ॥ बिभ्राणं वा कपालं च शूलमब्जं सुदर्शनम् । दक्षिणेतरयोश्चर्म वैयाघ्रं पीतमम्बरम् || ५३ || वसानं नैकनागार्धहारिहारविराजितम् । तथाहिमकराकारकुण्डलं सुन्दराननम् ॥ ५४ ॥ सकपर्दकिरीटं सचन्द्रचूडामणि विभुम् । सबिल्वदलनीलाब्ज सरोजतुलसीस्रजम् ॥ ५५ ॥ नानाभुजङ्गरत्नाढ्य मुद्रिकाकङ्कणाङ्गदम् । अर्घनीलगलोल्लासिनैकाहिमणिभूषणम् ॥ ५६ ॥ साहिहेमोदराबद्धकटिसूत्राङ्घ्रिभूषणम् । भस्माङ्गरागोल्लसितं हरिचन्दनचर्चितम् ॥ ५७ ।। रौद्ररम्याकृतिं सर्वशोभातेजोनिधिं विभुम् । दक्षिणेतरपार्श्वस्थपार्वतीश्रीविराजितम् ॥ ५८ ॥

'पा' क. पाठ:.