पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुष्पञ्चाशः पटलः । एवंरूपं हरहरिमुपचारैर्यजेत् क्रमात् । अङ्गैश्च शक्तिभिश्चाष्टमूर्तीशैर्द्वारपालकैः ॥ ५९ ॥ प्रागुक्तैरथ लोकेशैरिट्वावरणपञ्चकम् । संपूज्यैवं हरहरिं हुत्वा च समिदादिभिः ॥ ६० ॥ जुहुयुश्च द्वितीयेऽह्नि तृतीये त्र्यम्बकेन च । विष्णोर्नुकादिना चापि मूलाङ्गाद्यैर्यथाक्रमम् ॥ ६१ ॥ प्रायश्चित्तं चतुर्थेऽह्नि हुत्वाघोरास्त्रमन्त्रतः । सुदर्शनेन पालाशसमिदाज्यैर्यथाक्रमम् || ६२ || चण्डसेनं यथापूर्व समाराध्य जयादिभिः । प्रायश्चित्तैस्तथा हुत्वा पूर्ण स्विष्टकृतं तथा || ६३ ॥ अमीनात्महदम्भोजे समारोप्य विसृज्य तु । तोरणध्वज लोकेशद्वारकुम्भस्थदेवताः ॥ ६४ ॥ ततस्त्वष्टोत्तरशतैः कलशै: स्त्रपयेदपि । संपूज्य सविशेषं तु दक्षिणाद्यं प्रदाय तु ॥ ६५ ॥ रात्रौ भूतबलिं दत्त्वा नित्यपूजादिसिद्धये । सङ्कल्प्य विभवं भक्त्या यथेष्टं लभते फलम् ॥ ६६ ॥ शङ्करनारायणप्रतिष्ठाधिकारः । नित्योत्सवे तु प्राद्वारे नन्दीशश्चण्ड एव च । महाकाल: प्रचण्डश्च भृङ्गी विघ्नश्च दक्षिणे || ६७ ॥ पश्चिमे वृषभानन्तौ चण्डसेनावथोत्तरे ( ? ) । स्वाशासु लोकपालेभ्यः स्वैः स्वैर्मन्त्रैर्बलिं क्षिपेत् || ६८ ॥ तत्रायं विशेषः - इन्द्राय सुराधिपतये सायुधसवाहन परिवाराय शङ्करनारायणपार्षदे नमः । तत्पार्षदेभ्यो नमः । इति दिक्षु सर्वत्र शङ्करनारायणपार्षच्छब्दयुक्तैरेव मन्त्रैर्बलिं विकिरेन्नित्योत्सवे । महोत्सवे 'तु दैत्यदर्पविनाशाये'त्यादिमिश्च 'ये भूताः पुरस्सद' इत्यादिभिश्च शैव महोत्सवोदितैः 'शङ्करनारायणस्य भगवत' इत्यादिभिस्तत्र बलिं क्षिपेत् । इष्ट्वा वृषार्धगरुडं मण्डपस्थं बलिं क्षिपेत् । गणेशं वीरभद्रं च मातृः शास्तारमेव च ॥ ६९ ॥