पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्सवबलिदेवताः] चतुष्पञ्चाशः पटलः । शैवा विंशतिसङ्ख्याः स्युः पञ्चाशद् दिक्षु वैष्णवाः | तद्यथा - महाकालो विधाता च वज्रपाणिः ऋतु (: ? ) प्रभुः ॥ ८२ ॥ दक्षः शतंक्रतुस्तद्वदप्रमेयोऽथ वीर्यवान् । नित्यो विद्युत्प्रमश्चैव शूलहस्तस्त्रिलोचनः ।। ८३ ।। खाङ्गदीपस्तमोघ्नश्च सृष्टिकृच्चोरुविक्रमः । मान्धाता च महावीर्यो नित्ययोगः प्रसादनः ॥ ८४ ॥ उत्कूट: प्रकटश्चैव उन्मुखो द्विमुखो हरिः । अश्वग्रीवोऽश्वबदनो ह्यश्वजिहोऽश्वलोचनः ॥ ८५ ॥ केशवो वामनश्चैव नरो नारक एव च । मन्दरो मन्ददृष्टिश्च कन्दः कन्दुकलोचनः ॥ ८६ ॥ पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा । पाण्डर: पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ १७ ॥ बामदेवो महादेवो मोहनो मधुसूदनः । कलन: फालनश्चैव भावनो भगवान् भवः ॥ ८८ ॥ हनुमान् भागधेयश्च भास्करो भासुरस्तथा । विश्वेशो विश्वसेनश्च विष्वक्सेनो विसारणः ॥ ८९ ॥ विस्तारो विस्तरश्चैव विदण्डी दण्ड एव च । कामुकोऽकामुकश्चैव कामहृत् कामनाशनः ॥ ९० ।। सप्ततिस्तु गणाः प्राच्यां हरनारायणस्य तु | अभिरग्निसमानश्च ज्वालामाली च विश्वभुक् ॥ ९१ ॥ हुताशो मूर्तिमान् व्यापी कपिलो रक्तलोचनः । उप्रो रक्तवपुर्धूमः सतार्चिर्विश्वभेषजः || ९९ ॥ सुतपा वेगवांश्चाथ भस्मच्छन्नो मरुत्सवः । योगप्रियो दारुजश्चाप्यामेयो निधनस्तथा ॥ ९३ ॥ अभिजिद्दो हुताशश्चाप्यग्निरूपोऽग्निकेतनः । अग्निवर्णोऽभिग्न्यास्यो महासेनो महोदरः ॥ ९४ ।।