पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ महानासः करालश्च कालजिद्दो विवर्तकः । मण्डूर्मण्डूककाकास्यौ देवो देवलकस्तथा ॥ ९५ ॥ शमकश्चमकश्चैव शङ्कुः शङ्कुश्रवास्तथा । मारीचो द्रोणमारीचो महिषो भीषणस्तथा ।। ९६ ।। कुम्भनासो विनासश्च कुम्भकर्णोऽथ कुम्भकः । विसरी विक्रमी चैव मत्सरी मस्करस्तथा ॥ १७ ॥ सूकरः सूकरास्यश्च शशः शशमुखस्तथा । सिंहः सिंहमुखश्चैव नारसिंहो नरस्तथा ।। ९८ ।। कालहृत् कालसूत्रश्च सूत्रकः सूत एव च । विनाली नालकर्णश्चेत्याग्नेय्यां दिशि सप्ततिः ॥ ९२ ॥ यमो वैवस्वतो धाता दैत्यघाती प्रजान्तकः । मृत्युः प्रेताधिपो धर्मः कृष्णः कृष्णाक्ष एव च ॥ १०० ॥ नित्ययोगी च कालश्च आशुकारी परेतपः । मायारूपी कृतान्तश्च सत्यः सत्यप्रियः सुहृत् ॥ १०१ ॥ पितृनाथध कीनाशो धर्मो धर्मरतस्तथा । धर्म्यश्च धर्मजश्चापि धन्वी च प्रश्रयो नयः ॥ १०२ ॥ कुणकः कुणिवाहश्च निःश्रेयो नीरिणोऽलसः । निष्कोपो निरंनुक्रोशः कुब्जः पांसुविमर्दनः ॥ १०३ ॥ आहो उताहो आहुश्च निर्मलो निवहो वहः । एकलव्यश्च पलल ऊहुः संरक्षणस्तथा ॥ १०४ ।। शङ्खी चक्री च धन्वी च कङ्कटः कटुको विटः । वसुदेव: सुभद्रश्य शार्शी शार्ङ्गधरस्तथा ॥ १०५ ।। चित्राङ्गदश्चित्ररथः केतुमान् केतुदः क्षमी । बल्लको वल्लकीहस्तो द्विरदो विग्रहोऽम्बरः ।। १०६ ॥ आर्जम्बो दुन्दुभिः श्वेतश्चैते याम्यां दिशि स्थिताः । राक्षसञ्चासुरः कव्याद् वीरहा निर्ऋतिस्तथा ॥ १०७ ॥ तीक्ष्णनेत्रो यातुधानो यज्ञहन्ता निशाचरः । महामूर्तिः कैकसेयः क्रूरः क्रूरवपुस्तथा ॥ १०८ ॥ १. 'रु.' क. पाठ.