पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ दुर्गन्ध पूतिगन्धश्च दक्षिणोऽदक्षिणः सुहृत् । विरोधो रोधनो रोधस्ताक्ष्यों गरुड एव च ॥ १२२ ॥ अङ्गदी कङ्कणी चेति वारुण्यां गणसप्ततिः । वायुर्गन्धवहः सूक्ष्मः स्पर्शनश्च प्रभञ्जनः ।। १२३ ॥ प्राणोऽपानस्तथा व्यान उदानश्च समानकः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ १२४ ॥ ध्वजपाणिश्च पवनः श्वसनो मारुतोऽनिलः । विद्वान् मरुन्मारुतश्च वातो वह्निसखो हरिः ॥ १२५ ॥ अलको वर्तकः कङ्को मार्गणः प्राङ्कणो बलः । अवलो बलघिवरो द्विधीरो रोधकोऽपि च ॥ १२६ ।। सविधिः सुविधिश्चैव सङ्गरो विकटस्तथा । माली मानी सुधीश्चैव समर्थः साहसो घर: ।। १२७ ।। कुकुटः कुटकश्चैव गन्धो गन्धवहस्तथा । सक्तगोऽसक्तगो रागी सेचनोऽसेचनः स्वनः ॥ १२८ ॥ औषधं भेषजं जीवो रोगी रोगो भगः सुखी । कारणं करणं कर्ता पराधीनो बलोबलः || १२९ ।। इत्येते सप्ततिगणा वायव्यां दिशिसंस्थिताः । यक्षेशो रायमान् सोमो माणिभद्रोऽथ गुह्यकः ॥ १३० ॥ चेली माली कुबेरश्च जम्भलः शिबिकुण्डली | किन्नरेशश्चैलबिलिर्धनदश्च धनाधिपः ॥ १३१ ॥ राजराजस्तथा श्रीदो ज्येष्ठो मालाधरो धनी । उत्तराशानिवासश्च ततः स्यादेककुण्डलः ॥ १३२ ॥ सोमः सोमकलः सौम्यः सोमवित् सोमवर्धनः । सुधासुधाता भजीर: सुराष्ट्रः काष्ठालः कलिः ॥ १३३ ॥ कालवान् कालचक्रश्च कालकूटं विषज्वरः । अमृतं चामृतेशोऽम्भः केयूरी केवली वली ॥ १३४ ॥ १. 'गः सेचनस्वनः', २. 'ल' ख. पाठः.