पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे द्वात्रिंशः पटलः ।

हारासु चलभीमध्ये प्रमाणभवनेऽपि वा । कुड्येषु तोरणानि स्युस्तत्कुष्यं पञ्चधा स्मृतम् ॥ ९ ॥ शिलामयं वैष्टकं च जालकामयमित्यपि । फलकामयमय्यन्त्यं सन्मये चापरं क्रमात् ॥ १० ॥ यथईन्यासतुङ्गं तत् कुडधं शैलं शिलामयम् । नानाजालकनिष्पाद्यं कुडचे यज्जालकामयम् ॥ ११॥ यथार्हस्तम्भविन्यास शस्तदारुमयक्रियम् । फलकाभिश्चितं मध्ये कुड्यं स्यात् फलकामयम् ॥ १२ ॥ मुत्तिकाभिः प्रशस्ताभिः कषायसालेलादिभिः । मर्दिताभ्युषिताभिश्च चि(त्रं१ तं) कुड्यं तु सृन्मयम् ॥ १३ ॥ कुड्यव्यासत्रिदेवांशबहलां वाप्रपङ्कजाम् । पाट्टेकां चतुरक्षां वा कुड्योपरि नियोजयेत् ॥ १४ ॥ स्तम्भान्तरं द्विहस्तादि भवेत् पञ्चकरान्तरम् । बितस्तिषद्धया तन्मध्ये कार्या कुडचलता त्रिधा ॥ १५ ॥ कुडपस्तम्भस्य विस्ताराद् द्विगुणे चार्मुच्छ्रितम् । अषः पद्मासनं कुर्यात् तदूर्ध्वं च यथारुाचे ॥ १६ ॥ विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात् । पत्र विनिर्गतैश्चित्रे यथाशोभं नियोजयेत् ॥ १७॥ तदूर्ध्वं कुष्य कस्तम्भसमपादाम्बुजासनम् । अखण्डकलशं कुर्यात् पद्मकुम्भलतायुतम् ॥ १८ ॥ सा तु कुम्भलतासंज्ञा सैव खण्डोपरि क्रमात् । नक्रतोरणवन्न्यस्ता स्तम्भकुम्भलता मता ॥ १९ ॥ कुम्भपद्मासनयुता सैव सर्वलतान्विता । पद्मकुम्भलता नाम विज्ञेया हि लता भवेत् ॥ २७ ॥ तले तले विमानानां (नि? दि) मेरााणे विन्यसेत् । नन्दीश्वरमहाकाली पूर्वद्वाराधिपौ न्यसेत् ॥ २१ ॥