पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चपञ्चाशः पटलः । चतुर्भुजा वाष्टभुजा स्यात् षोडशभुजाथवा । सिंहासने वा स्वासीना स्थिता वा महिषोपरि |॥ १० ॥ प्रतिष्ठाप्या भवेद् दुर्गा भीत्यादों सिंहगाथवा | बरदाभयशङ्खारिहस्ता दुर्गा चतुर्भुजा ॥ ११ ॥ बामतस्तर्जनीचापचर्मशङ्कांस्तु बिभ्रती । शुलेषुखड्गचक्राणि दक्षिणेऽष्टभुजा यदा ॥ १२ ॥ कपालं चाङ्कुशगदे शतघ्नीप्रासकौ धनुः । चर्म शङ्खं तथा वामे बिभ्रतीमथ दक्षिणे || १३ || शूलपाशाग्निवज्राणि तोमरं शरमप्यसिम् । चक्रं चाषःकराद्यं तु कुर्याद् यष्टभुजा यदा ॥ १४ ॥ मध्येन दशतालेन बेरं स्त्रीमानतो भवेत् । मण्डपे तोरणाः कार्याः प्राग्वत् क्षीरतरूद्भवाः ॥ १५ ॥ प्रागाद्यासु चतुर्दिक्षु यज्ञेशश्च प्रभाकरः । मङ्गलश्च सुभद्रश्च स्थाप्या वेदादिभिः क्रमात् ॥ ११ ॥ तोरणाभ्यन्तरे द्रौदा वैजा तद्देवता अपि । कुन्दा च कुमुदा चैव विद्युन्माला च भीषणा ॥ १७ ॥ कलषी घोषणी चैव कराली विकृतिस्तथा । तिष्ठाधिकारः] पूज्याः स्युस्तत्पताकासु शङ्खाद्य(त्रै?खै)स्तु चिह्नयेत् ॥ १८ ॥ सितारुणासितश्याम॑धूम्रपीताश्च कर्बुराः । मिश्रश्चाथ प्रतिद्वारं द्वे द्वे दूत्यौ क्रमेण तु ॥ १९ ।। काली कराली विरजा मन्दरा विन्ध्यवासिनी । सुप्रभा सिंहवका चाप्यष्टमी दैत्यमर्दनी ॥ २० ॥ खड्गखेटधराः सर्वा भूषिताः कुम्भगां यजेत् । ततो विकिरविक्षेपात् कुम्भे सिंहगतां शिवाम् ॥ २१ ॥ अस्त्रं चाभ्यर्च्य वर्धन्यां कृत्वा चाकारशोधनम् । नेत्रमोक्षं जले वासं प्राग्वद् ग्रामप्रदक्षिणम् ॥ २२ ॥ १. 'मा', २. , क. पाठः. .