पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गौरीप्रतिष्ठाधिकारः] उत्तरार्धे षट्पञ्चाशः पटलः । द्वितीयेऽह्न्यथ मूलाङ्गैर्गायत्र्या समिदादिभिः | अष्टद्रव्यैः शतं मूलेनाङ्गानां तु दशांशतः ॥ ५० ॥ गायत्र्या च शतं गौरीमिमायेत्यादिनापि च । तृतीयेऽह्नि तिलाज्याभ्यामघोरास्त्राच्छिवास्त्रतः ॥ ५१ ॥ हुत्वा पाशुपतास्त्रेण प्रायश्चित्तैर्जयादिभिः । चतुर्थदिवसे प्राग्वदिष्टया निर्माल्यधारिणम् ॥ ५२ ॥ अमीनात्मनि संहृत्य नापयेत् कलशैः शतैः । दक्षिणाश्च प्रदेयानि दत्त्वा भूतबलिं निशि ॥ ५३ ॥ विकिरेन्नित्यपूजार्थं विभवं चापि कल्पयेत् । फलं शिवप्रतिष्ठोक्तं कर्ता सर्व समश्नुते ॥ ५४ ॥ आवाहनी स्थापनी च निष्ठुरा क्षोभणी तथा मोहनी द्रावणी चैव कर्षणी सन्निधापनी ॥ ५५ ॥ वन्दनी च महामुद्रा गौरीमुद्रा दश स्मृताः । अञ्जलिः पूर्णपुष्पो य उत्तानो द्वादशान्ततः ॥ ५६ ॥ आमूर्तिहृदयानीतो मुद्रा ह्यावाहनी स्मृता । सैव पुष्पं विना मुद्रा स्मृता स्थापन्याधोमुखी ॥ १७ ॥ निष्ठुरा चोच्छ्रिताङ्गुष्ठश्लिष्टमुष्टिकरद्वयात् । अन्योन्यसंमुखौ हस्तौ संश्लिष्टौ मुक्ततर्जकौ ॥ ५८ ॥ मध्यमानुष्ठसंयोगात् क्षोभणी स्यात् प्ररोचनी । लिष्टाङ्गुष्ठतलौ हस्तौ प्रसृताङ्गुष्ठ तर्जकौ ॥ ५९ ॥ कनिष्ठानामिका मध्यासंश्लेषान्मोहनी स्मृता । अमृतीकरणं देव्या मोहन्या तु प्रकल्पयेत् ॥ ६० ॥ तथैव लिष्टकरयोस्तर्जन्यौ संप्रसार्य तु । मध्यमाङ्गुष्ठसंयोगाद् द्रावण्यानन्ददायिनी ॥ ६१ ॥ सैव सुश्लिष्टकरयोर्वक्रतर्जाप्रयोगतः । कर्षणी स्यात् तया देवीं प्रसन्नां परिभावयेत् ॥ ६२ ॥ सैव मध्याग्रतर्जाभ्यां ज्येष्ठिकाद्वयपीडनात् । सन्निधानकरी मुद्रा सान्निध्यं कल्पयेत् तथा ॥ ६३ ॥ ५४९