पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

५५५ ईशानशिवगुरुदेवपद्धतौ रेखा च शशरेखा च विश्वरूपा कृशोदरी । धनदा चेति कौंबेर्यां नायिका द्वादश स्थिताः ॥ ८८ ॥ सुररक्षणिका चार्या वागीशी + + + + +। + + व्रता वज्रवेगा वायुवेगा महेश्वरी ॥ ८९ ॥ ऐशानी ज्वलिनीसंज्ञा शाङ्करी चेति नायिकाः | द्वादशैताः स्युरैशान्यां गौरीपारिषदाः स्थिताः || ९० ॥ एताः पृथक् परिषदां सहस्रैः परिवारिताः । जगत्संहृतिसम्भूतिस्थित्यनुप्रहहेतवः ॥ ९९ ॥ सर्वासामपि चैतासां शुक्कानगुलपायसैः । घृतक्षौद्रप्लुतैर्दद्याद् बलिं भक्त्या तु देशिकः ।। ९२ ।। ततः शैवोक्तमार्गेण तीर्थमानं समाचरेत् । मूलाङ्गैर्वैदिकर्मन्त्रैर्यजेच्च सविशेषकम् ॥ २३ ॥ स्नपयेच्च सहस्रादिकलशैरुपपत्तितः । शिवगौरी चैकगौरी स्थिरगौरी द्विधा स्मृता ॥ ९४ ।। पत्नीत्वेन शिवस्यैव स्थिरलिङ्गगतस्य या । प्रतिष्ठिता समीपे तु शिवगौरी स्मृता हि सा ॥ ९५ ॥ गौरी सभूतैर्देवैर्वा मुनिभिर्वाथ मानवै: । स्थिरलिङ्गं विना सा चेदेकगौरी प्रतिष्ठिता ॥ १६ ॥ न पृथक्छिवगौर्यास्तु प्रशस्त : स्यान्महोत्सवः । शिवोत्सवे महेशन यात्रा तस्याः प्रशस्यते ॥ ९७ ।। नित्योत्सवान्ता (पूजान्तात् ? ) पूजा स्याच्छिवगौर्या यथाविधि । एकगौर्याः स्वतन्त्रस्तु पृथक् कार्यो महोत्सवः ॥ ९८ ॥ इत्थं गौरी प्रतिष्ठाप्य यथाविभवमादरात् । कल्पयन्त्युत्सवान्तां ये नित्यपूजां यथाविधि ॥ ९९ ।। न तेषां शक्यते वक्तुं पुण्यं युगशतैरपि । यद्यदिष्टतमं लोके दृष्टादृष्टफलं महत् ॥ १०० ।। तत् तत सर्वमयत्नेन लभन्ते कर्तृपूर्वकाः ।