पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तपञ्चाश: पटल: । निगदितमिह गौर्यास्तन्त्रमेतत् समासा - ल्ललितमपि च बिम्बं भानुतन्त्रं च दृष्ट्वा । विविधमिह विधिशैर्यत प्रतिष्ठादिकृत्यं सकलमपि तदूह्यं प्रोक्तशैवानुसारात् ॥ १०११ ॥ स्वती प्रतिष्ठाधिकारः] इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे गारैतिन्त्रपटलः षट्पञ्चाशः। अथ सप्तपञ्चाशः पटलः । प्रतिष्ठाथ सरस्वत्याः कथ्यते तन्त्रचोदिता । तारश्च नादो बिन्द्वन्तस्तत्पूर्वोऽन्त्यस्वरान्वितः ॥ १ ॥ वीप्सितो ( प व ) दशब्दश्च वाग्वादिनिपदं ततः । मरुत्सखप्रियान्तोऽयं जगत्यर्णो हि वाङ्मनुः ॥ २ ॥ तारादि:स्याद् द्विजातीनामन्येषां केवलः स्मृतः । सामिनदस्तु तारादिदीधैर्युक्तः कमात् स्वरैः ॥ ३ ॥ ऋगादिवेदशब्देश्ध धर्मशास्त्रपदेन च । पुराणपदंसंयुक्तैः षड् भिर्मन्त्रपदैः क्रमात् ॥ ४ ॥ स्वजातियुक्तान्यज्ञानि पडखान्तानि कल्पयेत् । बागीश्वरी चतुर्थ्यन्ता विद्महेपदसंयुता || ५ || वाग्वादिनीपदस्यान्ते धीमहीति पदं भवेत् । तन्नः सरस्वती प्रेति चोदयादिति योजिता ॥ ६ ॥ तारादिका सरस्वत्या गायत्री सर्वसिद्धिदा । मध्येन दशतालेन प्रोक्तस्त्रीमानतः कृता ॥ ७ ॥ प्रतिमा स्यात् सरस्वत्याः शुक्लवर्णा चतुर्भुजा | सबरां लेखनीं वामे कलशं चापि बिभ्रती ॥ ८ ॥ अभयं पुस्तकं तद्वदधश्चोर्ध्वं च दक्षिणे । शकुन्देन्दुषवला सकपर्देन्दुशेखरा ॥ ९ ॥