उत्तरार्धे द्वात्रिंशः पटलः । वर्गसहितं व्याससमनिर्गममेव वा । शक्तिध्वजयुतं चापि तथा सम्मुखपट्टिकम् ॥ ३५ ॥ बेदिका जालकस्तम्भयुक्तं स्यात् सिंहपञ्जरम् । प्रासादनीप्रसंश्लिष्टखनीप्रादर्घनिर्गतम् ॥ ३६ ॥ अधिष्ठानाङ्घ्रियुक्तं च प्रस्तरप्रीवसंयुतम् । तद्वत् सशिखरं शक्तिध्वजसम्मुखपट्टिकम् ॥ ३७ ॥ वेदिकाजालकर्णाढ्यं सार्धपञ्जरसंज्ञितम् । प्राग्वच्छेषं च विस्तारपादसम्मितनिर्गमम् ॥ ३८ ॥ ब्यासत्रिभागनिर्यूहं वृत्तस्फुटितकर्मवत् । पञ्जराख्यं स्मृतं चाथ खतुल्यशिखर प्रकम् ॥ ३९ ॥ लिष्टनीप्राङ्गकर्णे च कपोताद्यङ्ग संयुतम् । निर्यूहपञ्जरं त्वेतल्लम्बनासिकमुच्यते ॥ ४० ॥ संकष्टनीप्रकर्णाङ्घ्रि कृतनागदलाद्यपि । निर्यूहसहितं युक्तसर्वाङ्गं लम्बनासिकम् ॥ ४१ ॥ सिंहश्रोत्रशिखायुक्तमेतदेव तु पादवत् । नीप्रसंश्रितकर्णाशं सिंहश्रोत्राभिधानकम् ॥ ४२ ॥ यत् खविस्तारपञ्चांशद्वयंश निर्गमसंयुतम् । नीडाघस्तात् कपोताद्यैः खण्डनिर्यूहकं युतम् ॥ ४३ ॥ दण्डदण्डार्घनिष्कान्तनीप्राधस्तात् तथोपरि । कण्ठोर्ध्वतोरणोपेतं कपोतायङ्गसंयुतम् ॥ ४४ ॥ झषपञ्जरसंज्ञं स्यादथ कूटादि कथ्यते । कूटं प्रासादषडभागा दंशः शाला द्विगतः ॥ ४५ ॥ प्रासादजयभूम्यादिकपोतोर्ध्वनिबन्धनात् । उन्नतः पञ्जरोत्सेधस्तद्विभागोऽत्र कथ्यते ॥ ४६ ॥ पन्जरो शरांशे तु सपादांशोऽधितुङता | तदर्षं प्रस्तरोत्सेधस्तत्समः कर्णकोच्छ्रयः ॥ ४७ ।। शेषेणाप्यर्षकर्णः स्यादूर्ध्व शीर्षोदयः स्मृतः । तत्स्तम्भार्थादधिष्ठानं शेषेणाप्युपपीठकम् ॥ १८ ॥ ३१३
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६
एतत् पृष्ठम् परिष्कृतम् अस्ति