पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ लोकेशबलिदानान्ते ओं शास्तुर्भगवतो ये भूताः पुरस्सद इत्यादिभिः, सर्वेभ्योऽपि बलिं क्षिपेत् । तद्वत् तृतीयहारायामष्टाविंशतिमूर्तयः ॥ ७६ ॥ शास्तुरेव गणाव्यक्षाः स्थितास्तेभ्यो बलिं क्षिपेत् । आर्यः शास्ता गुहासन्नः सेनानीश्चन्द्रदिस्थिताः ॥ ७७॥ भूतवल्लभनामा च रुद्रतेजाश्च रूपवान् । एते त्रयोऽनिदिक्संस्थास्त्वथ कामी वरप्रदः ॥ ७८ ॥ लोकार्चितश्च नीलश्च चत्वारो दक्षिणे स्थिताः । श्वेतमातङ्गवान् श्यामी पीतालेपश्च नैर्ऋते ॥ ७९ ॥ रक्तमालाधरः शूरो मायी मातृगणप्रियः । पश्चिमे त्वथ वायव्ये कालवासा गणाग्रणी: ॥ ८० ॥ खड्गहस्तस्त्रमस्त्वेते तथोदीच्यां धनुर्धरः । सहजायो जनावेंशः साधुश्चैते व्यवस्थिताः ॥ ८१ || संसाररक्षकस्तद्वन्मधुमान् शेम्बरस्तथा । ऐसभागे त्रयस्त्वेते भूतसेनाधिपाः स्थिताः ॥ ८२ ।। विकीर्य बलिमेतेभ्यस्तद्बाह्येऽष्टदिशास्वपि । ओम् ऐन्द्यां दिशि गणा ये तु वज्रहस्ता महाबलाः || ८३ ॥ इत्यादिभिः क्रमात् प्राग्वत् पूर्वोक्तं लभते फलम् । इति ह कथितमेतद् भूतनाथस्य तन्त्रं निगदितमपि बिम्बे यच्च देवोद्भवाख्ये । तदखिलमवलोक्य स्थापनाद्युत्सवान्तं विमलमतिभिरूह्यं शैवकृत्यानुसारात् ॥ ८४ ३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे शास्तृतन्त्रपटलोऽष्टपञ्चाशः || 9. 'ज' क. पाठः-