पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

इंज्ञानशिवगुरुदेवपद्धतौ बहुबेरप्रतिष्टायामेते मन्त्राः क्रमोदिताः । एकबेरे तु तारं च नादः षष्ठस्वरान्वितः ॥ १० ॥ बिन्दुनादान्वितो बीजं नमो भगवतीत्यपि । त्रिनेत्रे ! कालि ! कालवर्णिनि ! अष्टभुजे! शूलकपालधारिणि ! प्रेतवाहिनि सुरुधिरस्नेहसंपूर्णवक्त्रे ! चामुण्डि ! नमोनम इति । स्वस्वबोजानि दीर्थैस्तु स्वरैर्युक्तान्यनुक्रमात् ॥ ११ ॥ अस्त्रान्तानि षडङ्गानि सर्वमन्त्रेषु कल्पयेत् । हंसो वृषो मयूरश्च गरुडः सिंहवारणौ ॥ १२ ॥ प्रेतश्च सप्तमातृणां वृषाखू वीरविघ्नयोः । वाहनानि ध्वजाश्च स्युर्ब्राह्मयादीनां नव क्रमात् ॥ १३ ॥ कूर्च शूलं शक्तिचक्रे हलं वज्रं कपालकम् । अक्षसूत्रं चाङ्कुशं च नवैतान्यायुधान्यपि ॥ १४ ॥ बाहनाद्यध्वजायै च विद्महेऽयायुधाभिधा । हस्तायै धीमहीत्युक्त्वा तन्नः स्वाख्या प्रचोदयात् ॥ १५ ॥ इति क्रमेण गायत्र्यो ब्राह्मयादीनां भवन्ति हि । तारं बीजं च लकुली ईश्वरायाथ विद्महे ॥ १६ ॥ अक्षमालाधरायेति धीमहे तन इत्यपि । वीरभद्रः प्रकारश्च चोदयादिति योजिता ॥ १७ ॥ वीरभद्रगायत्री । तारं बीजं चैकदन्तश्चतुर्थ्यन्तोऽय विद्महे । हस्तिवक्त्रः चतुर्थ्यन्तो धीम तन्न इत्यपि ॥ १८ ॥ ततो गणपतिः प्रान्ते चोदयादिति चोदिताः । विघ्नेश्वरगायत्री । मन्त्रोद्धारः । स्वदेवसदृशा कारभुजास्यनयनायुधाः ॥ १९ ॥ स्त्रीरूपास्तत्समाकल्पाः षण्मात्रप्रतिमाः स्मृताः | बहुबेरे तु चामुण्डा कृष्णवर्णा चतुर्भुजा ॥ २० ॥