पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनषष्टितमः पटलः । तुक्रस्तननिबद्धाहिर्वृत्तपिङ्गत्रिलोचना | वामे कपालं पाशं च दक्षिणे शूलमप्यसिम् ॥ २१ ॥ बिभ्राणा वा डमरुकं ज्वलत्कपिलमूर्धजा । सर्पकुण्डलकेयूरकटको दरबन्धनां ॥ २२ ॥ नानाहिहारग्रैवेयकटिसूत्राङ्घ्रिभूषणा । दंष्ट्रोत्कटमुखी रक्तमाल्यगन्धाम्बरादिका ॥ २३ ॥ रौद्रसाम्याकृतिः स्यादप्येकबेरे तु कथ्यते । करालकालमेघाभा वृत्तपिङ्गत्रिलोचना ॥ २४ ॥ ज्वलदग्निशिखाकारकपिशोर्ध्वशिरोरुहा । दंष्ट्रोत्कटमुखी तुङ्गपीनवृत्तपयोधरा ॥ २५ ॥ रक्तकञ्चुकिनी कृष्णभुजगस्तनबन्धना | नतमध्या सुपुष्टाङ्गी दिव्या नानाहिभूषणा ॥ २६ ॥ बामेऽहिकुण्डलान्यत्र परेतशिशुकर्णिका । नानाभटशिरोमाला किङ्किणीजालभीषणा ॥ २७ ॥ कपालखेटघण्टाहिपाशान् वामैस्तु दक्षिणैः । शूलखड्गौ च वेतालं ध्वनड्डमरुकं तथा ॥ २८ ॥ बिभ्राणाष्टभुजा भीमा प्रेतसिंहासन पदा । दक्षिणेन समाक्रम्य निविष्टा कुञ्चितेन तु ॥ २९ ॥ आलम्बितेन वामेन पादेनाक्रान्तदारुका । भूतप्रेतपिशाचाद्यैः शाकिंनीडाकिनीगणैः ॥ ३० ॥ परीता योगिनीभिश्च वीररौद्रोद्भटाकृतिः । चामुण्ड्याः प्रतिमा त्वेवं भवेच्छैलादिनिर्मिता ॥ ३१ ॥ दक्षिणामूर्तिसहशी वीरभद्रतनुर्भवेत् । गणेशस्यापि पूर्वोक्तलक्षणा प्रतिमा भवेत् ॥ ३२ ॥ प्राद्वारं बोत्तरद्वारं विमानं तिर्यगायतम् । मातॄणां तु भवेत् तद्वदेकबेरेऽपि सम्मतम् ॥ ३३ ॥ कृत्वा विमानं बेरं च प्रतिष्ठामथ कारयेत् । कृत्वाधिवासनायोक्तं मण्डपं षोडशाङ्घ्रिकम् ॥ ३४ ॥ ५६९