पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अलङ्कृत्य बितानाद्यैर्विन्यसेद् द्वारतोरणान् । प्रमोदन्यभयाशान्तिशुभाख्याश्च तोरणाः ॥ ३५ ॥ तद्देवताः क्रमात कुम्भी निकुम्भी वज्रभीषणा | मङ्गिणी चेत्यथैतेषां मूलयोर्द्वारकुम्भगाः || ३६ || दूतिका पालिना चाथ दण्डिनी भवहस्तका | पाशिनी वारुणी चैव शार्ङ्गिनी पद्मिनी च ताः || ३७ ॥ ध्वजाश्च हंसवृषभर्हिताक्ष्यमृगाधिपैः । गृध्रपैशाचवृषभैर्मूषिकेन च चिह्निताः ॥ ३८ ॥ बहुवेरे त्वेकबेरे पिशाचाङ्को भवेद् ध्वजः | पुण्याहविकिरक्षेपात् कुम्भास्त्रावभिपूजयेत् ॥ ३९ ॥ कुम्भे यजेत् तु चामुण्डां पिशाचारूढविग्रहाम् । वर्धन्यां सिंहगं त्वस्त्रं कृष्णं स्त्रीरूपभीषणम् ॥ ४० ॥ त्रिशूलाङ्कशिरस्कं तत् कपालासिकरं यजेत् । तत्परिभ्रमणादूर्ध्वं नवकुण्डेषु पूर्ववत् ॥ ४१ ॥ अग्निं विभज्य संस्थाप्य चामुण्डां मध्यकुण्डके । ब्रह्माण्याद्यास्तु पूर्वादिकुण्डेष्विष्टा जुहोति च ॥ ४२ ॥ तत्तन्मन्त्रैस्तु समिधो घृतं चैवं चरूंस्तिलान् । सर्षपाञ्छालिसिद्धार्थान् सक्तूंश्च जुहुयात क्रमात् || ४३ ॥ ब्राह्म्यादीनां तु समिधः पलाशलक्षसम्भवाः | औदुम्बर्यस्तथा बैल्वाः करञ्जेन्द्रतरूद्भवाः ॥ १४ ॥ रक्तश्वेतवटौ चाथ पैप्पलाश्च क्रमान्नव | अभावे समिधां यासां ग्राद्यास्तत्र पलाशजाः ॥ ४५ ॥ तत्तन्मन्त्रैः समिद्भिश्च घृतं हुत्वा शतं शतम् | कुर्यादाकारशुद्धिं च नेत्रोन्मीलनकर्म च ॥ ४६ ॥ जलाधिवासनं ग्रामभ्रमणं कारयेत् ततः । कृत्वा तु पूर्ववद् वेदिं शालिभिम्तण्डुलैरपि ॥ ४७ ॥ मध्यादीशानपर्यन्तं शय्याः कृत्वा पृथक् पृथक् | एककबर शय्या स्थान पञ्चाङ्गी वेदिमध्यनः ॥ ४८ ॥