पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपष्टितमः पटलः । पाताले भुवि चाकाशे याश्च ये वा वसन्ति ताः । ते च सुप्रीतमनसः प्रतिगृह्णन्त्विमं वलिम् ॥ १२९ ॥ इति । ततोऽष्टदिक्षु प्रोक्तेभ्यो गणेभ्यो विकिरद् बलिम् । योगिनीभ्यस्तु पूर्वस्यां शाकिनीभ्यस्तथानले ॥ १३० ॥ प्रेतेभ्यो दक्षिणे तद्वत् पूतनाभ्यश्च नर्ऋते । डाकिनीभ्यस्तु वारुण्यां पिशाचेभ्यस्तु मारुते || १३१ ॥ वेतालेभ्यश्च कौबेर्यो भूतेभ्यश्चेशगोचरे ! विकीर्य तु बलिं पश्चाद् बलिपीठमुपेत्य तु ॥ १३२ ॥ उग्रसेनां तु सगणां ध्यात्वाभ्यर्च्य निजाख्यया | अन्नशेषेण सर्वेण तस्यै पीठे क्षिपेद् बलिम् ॥ १३३ ॥ परिभ्रम्य यथापूर्वे प्रविश्यान्तः समाहितः । अभ्यर्च्य देवीं लिङ्गस्थां मन्त्रान् वा मन्त्रमेव वा ॥ १३४ ॥ मातृर्वा मातरं मूलबेरे स्वे स्वे नियोजयेत् । नित्योत्सवाधिकारः । अथोच्यते महाशान्तिर्देशराजहितावहा || १३५ ।। रोगोपसर्गमारीणामुत्पातानां च शान्तये । माघ फाल्गुनचैत्रेषु वैशाखज्येष्ठयोरपि ॥ १३६ ॥ आषाढे श्रावणे प्रोष्ठपदे चाश्वयुजेऽपि च । कार्त्तिक्यां मार्गशीर्षे च पुष्ये चापि विधीयते ॥ १३७ ॥ कृष्ण पक्षेऽथ शुक्ले च राष्ट्रादेरनुकूलभे । अष्टम्यन्तं द्वितीयादि यत् सप्तदिवसं भवेत् ।। १३८ ॥ तच भौमार्कवारान्तं महाशान्तिर्विधीयते । तेषां दिनानां नामानि ब्राह्मयादीनां तु नामभिः ॥ १३९ ।। त्रिद्येकसप्ततिदिनैः श्रेष्ठाद्या शान्तिरुच्यते । पुरे राष्ट्रे तथा ग्रामे वने वा पर्वतेऽपि वा ।। १४० ॥