ईशानशिवगुरुदेवपद्धतौ
स्तूपिकाश्चापि देवानामयुग्माश्चैव शोभनाः ।
युग्मा एव मनुष्याणां प्रशस्ताः सर्वधामसु ॥ ७३ ॥
शिखरोदयवेदांशात् पञ्चांशाद् वाब्जतुङ्गता |
तस्मात् पादाधिकं वा स्यात् सार्धपादाधिकं तु वा ॥ ७४ ॥
स्तूप्युच्छ्रयः स्यात् तन्न्यासः परतोऽत्र निगद्यते ।
शिखरलक्षणम् ।
[क्रियापाद:
असोपान करणं गुह्यागुमिति द्विषा ॥ ७५ ॥
वेदाश्रं दीर्घवेदाश्रं वृत्तं चेति त्रियोनिकम् ।
चतुर्विध प्रकार: स्यात् त्रिखण्डं शङ्कमण्डलम् ॥ ७६ ॥
९
अर्धगोमूत्रकं चाथै वल्लीमण्डलमित्यपि ।
त्रिखण्डाकारानचितं यत् सोपानं त्रिखण्डकम् ॥ ७७ ॥
मूलाधाग्रं तु संक्षिप्तं क्रमाद् यच्छङ्खमण्डलम् ।
तद्द्विखण्डं तु सोपानमर्धगोमूत्रसंज्ञितम् ॥ ७८ ॥
वृक्षारोहिलताकारं वल्लीसोपानसंज्ञितम् ।
शयितव्यासपादार्घत्रिपादोच्चानि वै पृथक् ॥ ७९ ॥
समखण्डानि कुर्वीत सोपानानि यथाक्रमम् ।
द्विदण्डं वाध्यर्धदण्डं भवेद्धस्तबिलं ततः ॥ ८० ॥
त्रिपादादू वापि चार्धादू वा हस्तनीमं विधीयते ।
स्थितस्य शयितस्यापि प्रवेशः स्याद् यथाबलम् ॥ ८१ ॥
अश्व्यग्निवेदबाणर्तुस्वरदण्डान्तविस्तृतिः ।
सोपानानां भवेद् द्वित्रिचतुर्दण्डोऽश्वपादके || ८२ ||
अर्धचन्द्रसमाकारं तत्संस्थानं प्रकल्पयेत् ।
तच्च हजघनं वा स्यात् त्रिपादं वास्य चोपरि || ८३ ॥
· स्थित्वा तले तले शस्तप्रादक्षिण्याधिरोहणम् ।
तदप्ययुग्ममेव स्यात् प्रासादे मण्डपेऽपि वा ॥ ८४ ॥
१. 'ट' ग. पाठः, २. 'लो' ख. पाठ:
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति