पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ क्षणं कुर्याम् ओं तमिति स च ब्रूयात् ततो वदेत् । प्राप्नोत्विदं मवांश्चेति प्राप्तवानीति सोऽपि च ।। ६२ ।। ततः सदर्भे हस्तेऽस्य दत्त्वाम्भोऽथ स्वधामपि । उद्धृत्य दद्यात् प्रेताय स्वधानमइति ब्रुवन् ॥ ६३ ॥ जलं चाथाचैयेचैनं ततः ससिकतांस्तिलान् । किरेदपहता आद्याद् रक्षायै सर्वतोऽपि च ॥ ६४ ॥ उदर्तामवराद्येन प्रोक्ष्य भोजनभाजनम् । तत्रैकवचनान्तः स्यान्मन्त्रः स्त्र्यन्तो भवेत् स्त्रियाः ॥ ६५ ।। तदनु उधृत्यामौ करिष्यामीत्युक्तः काममुद्धियतां काममूमौ च क्रियतामिति वदेत्, अथानिमुखा (त् ? तं) कृत्वा पक्कादिकान्युपाया स्त्रेणावोक्ष्य दर्भैरभिद्योत्याभिघार्य तेषु तिलान् विकीर्यावोक्ष्य ततोऽमावाज्य व्याहृतिभिर्हुत्वा दर्व्यामुपस्तीर्य सर्वस्मात् सकृत् सकृदादायाभिघार्य (दीक्षितो‌?दक्षिणतो) भस्ममिश्रानङ्गारान् निरुह्य तेषु जुहोति प्रेतायामुष्मै यमायच स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः। नमः शिवाय स्वाहेति स्त्रिष्टकृद्धोमः । तथैव व्याहृतिभिर्हुत्वा परिषिञ्चतु, भूपदीपा ( दि. ?) मिश्रावणनमस्कारान् विना (आपश्शु ? अपूपशु ) द्धान्नदधिक्षीरफलबहुलं निमित्तबुद्धवा ब्राह्मण भोजयित्वा तद्भुक्तशेषेण अमेदक्षिणतो दक्षिणामेषु दर्भेषु तिलमध्वा ज्यप्लुतं पिण्डमनेन दद्यात् । ओम् अयमोदनः कामदुघोऽस्त्वनन्धोऽशीषमाण: सुरभिः सर्वकामी स त्वोपतिष्ठत्वजरो नित्यप्तः स्वषां दुहानस्त्वमृतान् नस्तर्पयतु अमुष्मै प्रेताय पिण्डमुपतिष्ठत्त्विति । ऊजै वहन्तीराद्येन सेचयेत् स्वधयाख्यया । कृतहस्तावसेकाय तस्मै दद्यात् तु दक्षिणाम् ॥ ६६ ।। यद् यत् तदुपयोगि स्यात् गृहक्षेत्रधनादिकम् । भूषणाद्यं च तत् सर्वममुष्मै संप्रदाय तु ॥ ६७ ॥ क्षिप्त्वा पिण्डं तु नद्यां वा स्नात्वा पुण्याहमाचरेत् । अवारितं तदन्नाद्यं दत्त्वा चोपवसेत् स्वयम् ॥ ६८ ।। संस्कृत्य चैकोद्दिष्टान्ते तथा संवत्सरेऽपि च । त्रिषु चोपवसेत् कर्ता भुब्जीयाच्चापऽहनि ॥ ६९ ॥