पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टकाश्राद्धविधिः] उत्तरार्धे द्विषष्टितमः पटलः पात्रयोः प्रक्षिप्य पृथिवी ते पात्रमित्यभिमृश्येदविष्ण्वादिना अनखाङ्गुष्ठेनान्नाद्यं स्पर्शयित्वा पित्रादीनां कृतक्षणानां सपवित्रेषु हस्तेषु प्राग्वच्छुद्धजलं स्वधानामभिश्च प्रक्षिप्य तत्पात्रेष्वन्नाद्यं च स्पर्शयित्वा तेषां हस्तेष्वपामशनं च दत्त्वैवं निमित्तस्य च तत्र प्राणे निविष्टोऽमृतं जुहोमीत्याद्यान् प्राणाहुतिमन्त्रान् क्रमेण स्वयं जपति । ते च स्वस्वमुखेषु जुहुयुः । स्वयं चामिश्रावणान् श्रावयति कृणुष्वपाजादि राक्षोनप्रकारेण प्रत्यृचं दहाशसाद्यन्तम् ऋचां प्रा(ची) तिसूक्तं त्रिणाचिकेतं त्रिसुपर्णमीशानं च जपति । । अथ भुक्तवत्सु मेकणनान्नं(?)दर्शयन् तृप्ताःस्थेति ब्रूयात् । ते च तृप्ताःस्म इति ब्रूयुः । तदनु सजलं प्रादक्षिण्येन भूमावनेन किरति । ये अग्निदग्धान्युतजीवात्वदग्धाः कुले मम | भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमिति । अथ दक्षिणाभिराच्छादनैश्च परितोष्य पित्रादीन् क्रमेणोत्थाप्य तदनु निमित्तं च शेषान्नाद्यमनुज्ञाप्य उत्तरामौ व्याहृतिभिर्हुत्वा शेषं कृत्वात विसृज्य प्रेतपात्रस्थजलं पित्रादिस्वधापात्रेषु क्रमान्मधुवाता ऋतायते इति तिसृभिः सङ्गच्छध्वमिति द्वाभ्यां नियोज्य दक्षिणस्माद् दक्षिणतोऽमेदर्भान् संस्तीर्य पितृतर्पणमन्त्रैः पिण्डान् दत्त्वाभ्यर्च्य दराच्छाद्य प्रेतपिण्डं पितृपिण्डेषु त्रिधा नियोजयति । समानो मन्त्रः समितिरित्यादिना समानी व आकूतिरिति द्वाभ्यां पित्रादिपिण्डानेकीकृत्याथ ये समाना ये सजाता इति द्वाभ्यामेनानुपतिष्ठेत । तेन स्वधापात्रजलान्येकीकृत्य पिण्डं परिषिञ्चति । ततो यज्ञोपवीती जयादिप्रायश्चित्तान्तं हुत्वा आधेनुवरप्रदानान्तं कर्म कृत्वा पित्रादीन् देवांश्वोद्वास्याद्वारादनुज्ञातो द्विजेभ्यो लिङ्गिभ्योऽर्थिभ्यः स्वजनेभ्येश्चानिवारितमन्नाद्यं दक्षिणाश्च शिवार्पणबुद्ध्या दत्त्वा तदुद्देशेन शिवपूजां विदधीत। शक्तश्बेल्लिङ्गं च तदर्थं प्रतिष्ठाप्य यथाविभवं पूजादिकं कल्पयेत् । निमित्तं चाभिमतस्वर्गादिभोगै: संयोज्य स्वयमप्यहिकामुष्मिकान् कामानाप्नोति । सपिण्डीकरणाधिकारः । मातापित्रोस्तथा भ्रातुर्मातुलाचार्ययोरपि । अन्येषामपि बन्धूनां वर्षे वर्षे तु तहिने || ९३ ॥ कुर्यात् संवत्सरश्राद्धं तांस्तान् बोद्दिश्य शक्तितः । अथाष्टकाश्राद्धविधिः कथ्यतेऽत्र समाहितः ॥ १४ ॥