पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टकाश्राद्धविधिः ] उत्तरार्धे द्विषष्टितम: पटलः । सुमुखान् सुव्रतान् स्नाताननूचानान् विशेषतः । भोजयेदागतान् सम्यक् पादशौचादिपूर्वकम् ।।" अत्र स्मृतिः त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ॥ दिवसस्याष्टमे भागे मन्दीभवति भास्करे । स कालः कुतपस्तस्मिन् पितॄणां दत्तक्षयम् ॥ पयसा मासिको तृप्तिः पायसेन तु वार्षिको । मध्वाज्यपाय सैस्तृप्तिर्भवेद् द्वादशवार्षिकी ॥ पितॄणामिति । वर्ज्य : कालेषु पूर्वा (हे ! :) सन्ध्ये नन्दा चतुर्दशी । शुक्रज्ञजीववारा (च) पूर्णाः वः) कर्तुश्च जन्मभम् ॥" अथ प्राङ्गणे गोमयेन चतुरश्रं हस्तविस्तीर्ण मण्डलमुपलिप्य प्रागग्रान् दर्भान् सयवानक्षतानास्तीर्य तस्मिन् युग्मान् विश्वेदेवबुद्ध्या ब्राह्मणान् पादयोः सयवमर्थ्यं दत्त्वा मृज्जलैः प्रक्षालितान् स्वाचान्तानन्तः प्रवेश्य सदर्भासनेषु प्राङमुखानुपवेश्य तदनु पश्चिमतः संयाम्यायदर्भे वृत्त मण्डले पितृपितामहप्रपितामहानयुजो द्विजान् सतिलजलार्ध्यपूर्व क्षालितचरणान् स्वाचान्तानन्तः प्रवेश्योदङ्मुखान् सदर्भविष्टरेषूपवेश्य पुनश्च पितृमण्डलाद् दक्षिणतः दक्षिणादर्भे मण्डले मातृपितामहप्रपितामहीभ्यः प्राग्वद् ब्राह्मणान् कृतपादशौचाननन्तरं तत्र प्रवेश्य, तदनन्तरं मातामहमातुः पितामहमातुः प्रपितामहेभ्यः सपत्नीकेभ्यो ब्राह्मणान् प्राग्वन्निवेश्य आयन्तु पितर इत्यादिना क्षणं कृत्वा पित्रादिभ्यो मात्रादिभ्यो मातामहादिभ्यश्च पात्रत्रये प्राग्वन्मन्त्रैः स्वधां कृत्वा अपहता असुरादिनास्त्रेण च ससिकतांस्तिलान् विकीर्य तेषां सदर्भहस्तेष शुद्धजलं स्वधाजलं च प्राग्वन्मन्त्रतः पृथक् क्रमेण दत्त्वा (स्पादिकै.) पितृन् विलोमतोऽभिपूज्य प्राग्वत् संस्कृतं ( चा ? च)र्वादिकं सपिण्डीकर (णं ? णवद्) जुहुयात् । विशेषस्त्वपूपहोमानन्तरम् इयमेव सायात्प्रथमा व्यौच्छदिति पञ्चदशकं युष्टये इत्येकां संवत्सरस्य प्रतिमासिकाम् ओं अग्नये कव्यवाहनाय स्वधा नमः शिवाय स्वाहा इत्यादि सोमाय पितृमते यमाय अर्यम् अङ्गिरसे अभिब्वात्तेभ्यो बर्हिषद्भ्यः सोमपेभ्य ऊष्मपेभ्यश्च जुहुयात् । आज्यं (प्राकाग्र ? ) -