६०४ ईशानशिवगुरुदेवपद्धतौ नैवेद्यहीनं दुर्भिक्षममिकार्ये च्युते सति । अनावृष्टिभयं राष्ट्रे बलिच्छे प्रजाक्षयः ॥ ५ ॥ नित्योत्सवस्य हानौ स्यात् परचक्रभयं सदा । महोत्सवस्य विच्छेदे राज्ञः कर्तुश्च नाशनम् ॥ ६ ॥ तस्मान्न हापर्यंत कञ्चिदुपंचारं विचक्षणः । यथाक्तोचा (र ? रात्) सम्पद् विवर्धते । प्रमादादू त्राथवा विघ्नात् पूजादेरिह विच्युतौ || ७ || तत्तद्विगुणितां पूजां कृत्वाघोरशतं जपेत् । वृषयागविहीने तु गवां नाशो भवेद् यतः ॥ ८ ॥ तच्छन्त्यै वृषभस्यैव पूजा द्विगुणिता भवेत् । ध्वजहीनोत्सवे राज्ञः शत्रुपीडा भवेद् यतः ॥ ९ ॥ तद्भङ्गे वा पताकाया मारी राष्ट्र प्रवर्धते । तच्छान्त्यै तु ध्वजस्यैश कुण्डेऽग्नौ वृषमन्त्रतः ॥ १० ॥ समिदाद्यष्टभिर्हुत्वा वृषं चैव शिवं यजेत । पुनरपि ध्वजमुच्छ्रित्योत्सवं प्रवर्तयेदिति यावत् । मङ्गलाङ्करहीने स्याद् राजादीनाममङ्गलम् ॥ ११ ॥ त्रियम्बकादिना हुत्वा सर्विशेषं शिवं यजेत् । हीने कौतुकबन्धे तु राष्ट्रे रक्षा विनश्यति ॥ १२ ॥ तत्र त्रैयम्बकेनाज्यं हुत्वेष्वा कलयेच्च तम् । चूर्णोत्सवं विना रोगो राष्ट्रे भवति शान्तये ॥ १३ ॥ मृत्युञ्जयेन हुत्वात्र सविशेषं शिवं यजेत् । तीर्थयात्रां विना राष्ट्र जलाभावेन पीड्यते ॥ १४ ।। हुत्वाज्यं संहितामन्त्रैस्तीर्थयात्रां प्रवर्तयेत् । ध्वजावरोहणे हीने पीडयेचण्डमारुतः ।। १५ ।। कृत्वा तु पूर्ववच्छान्ति शिवारोपयेत् । उत्सवावाहितानां तु गणानामविसर्जने ॥ १६ ॥ राष्ट्रक्षोभो भवेच्छान्त्यै शिवमिष्टा जयाबलिम् । बिकीर्य तु गणान् सर्वानमिपूज्य विसर्जयेत् ॥ १७ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०७
एतत् पृष्ठम् परिष्कृतम् अस्ति