ईशानशिवगुरुदेवपद्धतौ आर्षस्वयंभुलिङ्गानां कृत्वा संप्रोक्षणं पुनः । जीर्णस्थापनमात्रेण स्नपयित्वा तु पूजयेत् ॥ ३२ ॥ शिवकुम्भास्त्रयो कर्तुर्मरणमादिशेत् । आज्याद्यैः संहितामन्त्रैस्तत्र हुत्वा शतं शतम् ॥ ३३ ॥ तिलाज्यमस्त्रतश्चान्ये कुम्भास्त्र तत्र पूजयेत् | पूजिते स्नपनार्थं तु कलशे कलशेषु वा ॥ ३४ ॥ भिन्ने(खिमि)न्नेषु वान्यांस्तु समापूर्यायेत् तथा । अस्त्रेणाज्यशतं हुत्वा तेषु संपातयेद् घृतम् ॥ ३५ ॥ तद्वत् तावज्जपित्वा तु स्वर्ण दद्याच शान्तये | प्रासादे प्राङ्गणे वापि मृते वा रुधिरक्षते ॥ ३६ ।। मूत्रविष्ठादिसिक्ते वा श्वोदक्यासूतिकादिभिः । चण्डालैर्वा सुगालैर्वा गृध्रोलकैश्च गईभैः ॥ ३७ ।। प्रविष्टे च प्रसूते च प्रायश्चित्तं निगद्यते । तत्र तां तां भुवं खात्वा द्विहस्तं परितोऽप्यथ ॥ ३८ ॥ उद्धृत्य तां मृदं त्यक्त्वा गोकरीषाग्नेिना दहेत् । तद् भस्म च परित्यज्य गोमूत्रेणाभिपूर्य तु ॥ ३९ ॥ विप्रपादाम्बुतीर्थाद्भिः पञ्चगव्येन च क्रमात् । गोभिराक्र|मयेच्चाष्टमृद्भिरापूरयेदपि ॥ ४० ॥ प्रपां वा मण्डपं कृत्वा ब्राह्मणांस्तत्र भोजयेत् । दक्षिणेऽर्धेन्दुकुण्डेऽमौ संस्कृते चाहितं शिवे ।। ४१ ।। औदुम्बरीं चापौमार्गसमिधं च घृतं चरुम् । सिद्धार्थश्च क्रमादष्टसहस्रं तु पृथक् पृथक् ॥ ४२ ॥ ईशान्यैर्ब्राभिर्हुत्वा पुनः शार्लीस्तिलान् यवान् ! मुगान् समधुरा दूर्वाः पायसं च ( रव: ? चरूं) क्रमात् ॥ ४३ ॥ ब्रह्मभिश्चैव मूलेन गायत्र्या जुहुयात् पुनः । अङ्गानां तदशांशेन सर्वद्रव्यैर्जुहोति च ॥ ४४ ॥
१. 'दि' क. पाठ: २ 'पातू कृ', ३. 'प' ख. पाठः