पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानाशवगुरुदेव पूर्वोच्चा एव पादाः स्युः प्रस्तरोडापे न पूर्वपत् | ऊर्ध्वदण्डामविपुलमनुमा च कारयेत् ॥ १७ ॥ चतुरशचतुःस्तम्भो नन्धावतेस्तु भण्डपः । अष्टामिः स्वस्तिकाख्यः स्याद् वीरासनमिनामिभिः ॥ १८ ॥ स्तम्भैः षोडश मिर्विद्यान्मण्डपं श्रीमतिष्ठितम् | द्वात्रिंशर्जियभद्रं षट् शिद्भिरथामिभिः ॥ ९९ ॥ मण्डपो माणिभद्रः स्वाच्छतस्तम्भैविशालकम् । अत ऊर्ध्वं युक्ताः स्तम्भैर्विशालयस्तेऽपि मण्डपाः ॥१००॥ पादायतं वाप्यध्यम द्विगुणं वा ततोऽधिकम् | चतुरभायतं कुर्यान्मण्डपं दैवमानुषम् ॥ १०१ ।। द्वित्रिहस्तान्तरान् स्तम्भांबतुर्हस्तान्तरांस्तु वा । मण्डपे युतितः कुर्याद् भारनाहोत्तरोचितम् ॥ १०२ ॥ कुर्वीत मण्डपं युक्तया प्रासादाभिमुखेष्वपि । आरामपुण्यक्षेत्रादौ आमगेहादिमभ्यतः ॥ १०३ ॥ दीक्षाभिषेकयागार्थ नृत्तस्थानार्थमेव च । आरभ्य साहस्तं तु रसाङ्गुलविवर्धनात् ॥ १०४ ॥ शरस्ता वार्यावद् विद्यात् स्तम्भान्तरं क्रमात् । एकद्वित्रिचतुष्पञ्चभागे भक्तयान्तरे कृते ॥ १०५ ॥ एकभागेन वृद्धिः स्यादायामः स्वविशालतः | स्वभक्तिविस्ता त्रित्रिमात्रवृद्धया करान्ततः ॥ १०६ ॥ आयामस्त्वष्टधा प्रोक्तस्तेन मानेन योजयेत् । सायतं चापि तत्सर्वं तनाव प्रपद्यते ॥ १०७ ॥ मार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात्। अष्टहस्तान्तममचच्चं त्रयोविंशत्प्रमाणकम् ॥ १०८ ॥ द्वित्र्यंङ्गुालेचिवृद्ध्या तु स्तम्भोत्सेषोऽथवा भवेत् । अष्टाङ्गुलं समारभ्य चार्षार्धाङ्गुलवर्धनात् ॥ १०९ ॥ १. 'क्या' पाठः