पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिषष्टितमः पटलः । तच्छस्त्राण्यभितस्तेषां यथावदभिपूजयेत् । तद्वत् त्रिकोणकुण्डेऽसौ खादिराणां समिद्भिश्च संक्षाल्य क्षीरित्वकूपिष्टभस्मभिः(?) । लक्ष्मीदेवी सहादुवकान्त्येकादशपङ्कजैः ॥ ६९ ।। शकवल्ली सदाभद्रामुसलीमधुपाइयैः । रोचनागरुकर्पूरमांसीकुङ्कुमचन्दनैः ॥ ७० ॥ उशीरभुरुकुष्ठानां पिष्टैरपि च लेपयेत । प्रक्षाल्य तीर्थसलिलैबिल्वपत्रैश्च वर्षयेत् ॥ ७९ ॥ अमन्त्रं पूजयेत् प्राग्वदधिवासनमण्डपे | शय्यायां हेमकुम्भेऽद्विहंगरवादिपूरितैः ।। ७२ ।। प्राग्वत त्रिभागतत्त्वादिमूर्त्याद्यैरविवाभ्यतु । मूलाङ्गैः शिवमाबाह्य तम्मिन् सम्पूज्य लग्नके || ७३ || कुम्भस्थं तु शिव लिङ्गे योजयन्नभिषेचयेत् । सम्पूज्य तु यथांपूर्वी मुख्यादिम्नपनेन तु ।। ७४ || उपपत्त्याभिषिच्येशं प्राग्वत पूजां प्रवर्तयेत । महादोपप्रायश्चितम | अथ स्विन्ने सनिष्ठवेधूमष्मपीडिते || ७५ ।। अदीक्षितैश्च विप्राद्यैः स्पृष्टे वाप्यन्यलिजिभिः | प्राग्वद् दारुमये कोशे पञ्चगव्यैः पृथक् क्रमात् ।। ७६ ।। समस्तैश्यावगाहं तु कारयित्वा षडाहिकम् । मृद्भिश्च चन्दनाद्यैरप्यवघृष्याभिषिच्य तु ॥ ७७ ।। त्रिभागतत्त्वमूर्त्त्यादिषडध्वपरिभाबनाः । विधायार्थ्यादिभिः सम्यगभ्यर्च्य तु सदाशिवम् ॥ ७८ ।। अष्टोत्तरशतादीनां पञ्चविंशतिकान्ततः । स्नपनाना मेकत मेनोपपत्त्याभिषेचयेत् ॥ ७९ ॥ महापूजां चाभिकार्यं यथापूर्व विधाय तु । बलिं विकीर्य भूतेभ्यो दत्वान्नाद्यं च दक्षिणाः ॥ ८० ॥ ६०९.