पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिषष्टितमः पटलः । सान्निध्यं चाप्यवच्छेदात् तत्तद्देवस्य जायते । शान्त्यर्थं चापि दोषाणां कामाची चाप्यातये ।। ९१ ।। जयाबलिं च विकिरेत् तत्मकारोऽपि कम्यते । उत्तरायणसंस्थेऽर्केऽप्यथवा दोष संभवे ।। १२ ।। अष्टम्योश्च चतुर्दश्यो: पक्षयोः शुक्लकृष्णयोः । आर्द्रायां चैव महतीं शम्भोः पूजां प्रवर्तयेत् || ९३ || स्त्रपयित्वा पञ्चगव्यैस्तथा पञ्चामृतैरपि । त्रिकालं वा चतुष्कांलं नित्यादष्टगुणाधिकम् ॥ ९४ ।। सान्निकार्यं सवादित्रंगीतनृतोपशोभितम् । निशालु प्रकृतिप्रस्थतण्डुलैः साधितेन तु ॥ ९५ ॥ भूतक्रूरेण तूतेन भूतेभ्यो विकिरेद् बलिम् । महोत्सवोदितैः सर्वैबेलिमन्त्रैर्यथाक्रमम् ॥ ९६ ।। शुद्धोदनेन देवेभ्यो भूतेभ्यो भूतकूरतः । महोत्सवोदितभ्यस्तु गणेभ्यो बलिमादरात् ।। ९७ || विकिरेद् भोजयेचापि ब्राह्मणान् लिङ्गिनस्तथा । अन्येभ्योऽपि च मृष्टान्नं प्रदद्यादनिवारितम् ॥ १८ ॥ तदन्ते स्नपनेनेशमुपपस्याभिषेचयेत् । सर्वशान्तिकरो होष सुतारोरयजयप्रदः ॥ ९९ ।। उपसर्गग्रहप्रेतभूनपीडादिनाशकृत् । आयुश्श्रीवर्धनश्चास्मात् कर्तव्यो भूतये नृभिः ।। १०० ।। प्रायश्चित्तविधिश्च नित्यविष्यो नैमित्तिकानां तथा दोषाणामपि शान्तये निगदितो यः शैवतन्त्रोदितः । उत्पातप्रशमश्च विश्वदुरितक्लेशान् विहन्त्री नृणां पूजास्त्रस्य जयाबलिश्च विजयश्रीवर्धनः कीर्तितः ॥ १०१ ।। इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे प्रायश्चितादिपटलास्त्रेषष्टितमः ||