पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

६१२ ईशानशिवगुरुदेवपद्धतौ अथ चतुष्षष्टितमः पटलः । जीर्णोद्धारविधिं वक्ष्ये लिङ्गप्रासादयाः क्रमात् | खण्डिते स्फुटिते भिन्न चलिते पति हृते ॥ १ ॥ दग्धे जीर्णेऽङ्गहीने च सगर्भे वा क्षते च्युते । अज्ञानादधिके वोनमाने लिङ्गे तु मानुषे ॥ २ ॥ प्रतिष्ठिते वा क्षुद्रार्थ लिङ्गे नद्यब्धिपीडिते । त्यजन्ति मन्त्रास्तल्लिङ्गं देवश्चापि यतः स्फुटम् ॥ ३ ॥ त्यक्तं मन्त्रैश्च देवेन त्याज्यं पाषाणवद् भवेत् । तल्लिङ्गमाश्रयन्तीह पिशाचा ब्रह्मराक्षसाः ॥ ४ ॥ उक्तैर्दोषैः प्रदुष्टं चेत् त्याज्यं पीठमपि स्फुटम् । सकलेऽपि च तुल्या: स्युरेते दोषास्तथैव हि ॥ ५ ॥ ब्रह्मविष्ण्वादिकानामप्यन्यासां प्रतिमासु च । देवतानामिमे दोषास्तुल्यास्त्याज्यस्ततस्तु ताः ॥ ६ ॥ तत्र मूलालयाद् बाह्ये याम्ये पूर्वोत्तरेऽथवा । कुर्याद् बालालयं मूले पञ्चांशे तु त्रिभागतः ॥ ७ ॥ नवाशे पञ्चाभेस्त्र्यंशे द्वाभ्यां बालालयः स्मृतः । मूले तु पश्चिमद्वारे स्यान्नैर्ऋत्यां तु वानिले ॥ ८ ॥ तदग्रे मण्डपं चापि समलङ्कृत्य पूर्ववत् । तन्मध्यवेद्यां शयनं सङ्कल्प्योक्तविधानतः ॥ ९ ॥ मूललिङ्गेषु नन्देपुत्र्यंशपञ्चत्रिदकैः । कृत्वा तु दारवं लिङ्गं सपीठं सुमनोरमम् ॥ १० ॥ पुण्याहविकिरक्षेपकुम्भास्त्रभ्रमणादनु । तोरणद्वारलोकेशकलशार्चनपूर्वकम् ॥ ११ ॥ विद्येशकुम्भान् परितः संस्थाप्य शयनस्य तु | हैमाद्यन्यतमं कुम्भं शय्यायां विनिधाय तुं ॥ १२ ॥ थम्भःपूरिते तस्मिन् हेमरत्नादिसंयुते । लाङ्गब्रह्ममन्त्रांश्च व्योमव्यापिद्वयं तथा ॥ १३ ॥ यंत्री चैव सावित्रीमस्त्रमन्त्रौ च विन्यसेत् । पूजये यथापूर्वं संस्पृश्य प्रजपेच तान् ॥ १४ ॥