पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥ ईशानशिवगुरुदेवपद्धतिः । श्रीमदीशानशिवगुरुदेवमिश्रविरचिता । ( तुरीयो योगपादः) तद्यथा अथ प्रथमः पटलः । अथ मोक्षस्तु संसिध्येत् सम्यग् ज्ञानेन देहिनः । ज्ञानं जायेत वैराग्याद् वैराग्यं च स्वभावतः ॥ १ ॥ स्वभावो नाम संसारस्वरूपस्य निरूपणम् | संसारस्त्वात्मबुद्धिः स्याद् देहे स्वत्वेन वस्तुषु || २ ॥ देहोऽपि द्विविधो ज्ञेयः स्थूलसूक्ष्मप्रभेदतः । पृथिव्यादीनि भूतानि श्रोत्रा द्याधारकान्यपि || ३ || बागादिकर्मेन्द्रियाणि वातपित्तकफास्तथा । त्वगसृङ्मांस मे दोस्थि मज्जाशुक्लैश्च नाडिभिः ॥ ४ ॥ मूलाधारे कुण्डलिन्यां नामिहत्कण्ठमूर्धसु । चतुष्षडष्टजगतीविकाराक्षिच्छदाम्बुजैः ॥ ५ ॥ युक्तं स्थूलशरीरं स्यात् सूक्ष्मं पुर्यष्टकात्मकम् । तत्तच्छब्दादयः पञ्च मनो बुद्धिरहकृतिः ॥ ६ ॥ देहद्वयं तु साध्यात्मं साधिभूताधिदैवतम् । श्रोत्रादयश्च नागाद्यास्तथाध्यात्मानि वै पृथक् ॥ ७ ॥ शब्दादिवक्तव्यादीनामधिभूतत्वामेष्यते । खवायुतेजांसि जलं पृथिवी च तथानलः ८॥ इन्द्रो विष्णुश्च मित्रश्च प्र ( दे ? जे) शश्चाधिदैवतम् । अध्यात्मानि मनो बुद्धिरहंकारश्च तत्रयम् ॥ ९ ॥