पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे ‌ द्वितीयः पटलः । शिवानुग्रहमासाद्य योगी मोक्षमवाप्नुयात् । बिज्ञाय संसारमसारमेवं वैराग्यतोऽनुग्रहतश्च शम्भोः । संप्राप्य योगं तु गुरूपदेशाद् योगी विमुक्ति न चिरादुपैति ॥ ५५ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे योगपादे योगलक्षणं नाम प्रथमः पटलः ॥ अथ द्वितीयः पटलः । अथ योगस्तु विज्ञेयो गुणैश्वर्यविमुक्तिदः । चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः ॥ १ ॥ युजेर्धातोः समाधौ तु क्षेत्रज्ञपरमात्मनोः । युक्तिर्योगः समुद्दिष्टस्तथाचाह महामुनिः ॥ २ ॥ "मनो हि सर्वभूतानां कारणं बन्धमोक्षयोः । वृत्तिहीनं मनः कृत्वा स्वात्मानं परमात्मनि ॥ परमात्मा समायोज्य योगं कु + + + + + + + + विमुक्तः स्यान्मुख्योऽयं योग इष्यते ॥” इति। सम्यक् शिवगतं चित्तं यदा न चलति स्थिरम् । शिवत्वव्यक्तभावस्य कैवल्यं योग इष्यते ॥ ३ ॥ तच रागादिदोषाणां वर्जनेन प्रकाशते । ते च नश्यन्ति रागाद्या योगाङ्गानां निषेवणात् ॥ ४ ॥ योगाकानि च तान्यष्टौ प्रवदन्ति हि तद्विदः । तद्यथा- यमाश्च नियमास्तद्वदासनं प्राणसंयमाः ॥ ५ ॥ प्रत्याहारा धारणाश्च ध्यानानि च समाधयः । यमाः पञ्चप्रकाराः स्युर्नियमाश्चैव पञ्चधा ॥ ६ ॥ आसनानि च पञ्च स्युः प्राणायामास्तु नैकषा | प्रत्याहाराः पञ्चविधा धारणा बहुधा स्मृताः ॥ ७ ॥ १. 'नः', 'रात्मना स', ३, 'क्तिः' क. पाठः,