पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्यथा ईशानशिवगुरुदेवपद्धतौ अष्ट, र्णादिप्रकृत्यन्तं तत्राप्येकैकलोपतः । प्राणायामा विधातव्यास्तत्तद्धयानोपबृंहिताः ॥ ५४ ॥ तत्र विज्ञाय देहं च नाडवियुं च तत्स्थितम् । तच्छुद्धिं च विधायाथ प्राणायामं समाचरेत् ॥ ५५ ॥ तद्यथा- षण्णवत्यङ्गुलो देहो देहो लब्धाङ्गुलैः स्वकैः । ऊर्ध्व शरीरादधिकं प्राणः स्याद् द्वादशाङ्गुलम् ॥ ५६ ॥ मेहादूर्ध्वं व्द्यङ्गुलं तु देहमध्यमुदीरितम् । मूलाधारः स च त्र्यश्रो देवादीनां नृणामपि ॥ ५७ ॥ पश्चादीनां तु वेदाश्रस्त्वण्डजानां तु वर्तुलम् | चतुष्पदानां हृन्मध्ये क्रोड मध्येऽण्डजन्मनाम् ॥ ५८ ॥ मूलादूर्ध्वं मनुष्याणां नाभिकन्दो नवाङ्गुलात् । नाभिचक्रं तदूर्ध्वं तु द्वादशारमसुस्थितिः ॥ ५९ ॥ नाभेरधस्तात् कन्दाख्ये कुण्डलिन्यष्टवर्तुला । प्रसुप्तभुजगाकारा चतुरङ्गुलविस्तृता ।। ६० ।। द्वासप्ततिसहस्राणि नाट्य स्तन्मध्यनिर्गताः । अष्टाविंशतिसंख्याः स्युस्तासां मुख्यास्तु नाडयः ॥ ६१ ॥ तासां च दश वै श्रेष्ठा इडायास्तास्वपि त्रयम् । इडा पिङ्गा सुषुम्ना च गान्धारी हस्तिजिह्निका ॥ ६२ ॥ सुयशालम्बुषा पूषा कुहूश्चैव च शङ्खिनी । एतास्विडा पिङ्गला च सुषुम्ना चोत्तमाः स्मृताः ॥ ६३ ॥ तासामथ सुषुम्नाख्या ब्रह्मनाडी परा स्मृता । इति नाडीदशकम् || विमला घोषणी पृथ्वी ततस्त्वाप्यायनी मता ॥ ६४ ॥ तेजोवती वायवी च भगना चैव रोधनी | रसावाहा च मृदङ्गी स्रंसनी चापि मर्शनी ॥ ६५ ॥ शब्दस्पर्शबहे दर्णा सुरूपा रसधारणी । सर्वगा चेति निर्दिष्टा नाडयोऽष्टादश क्रमात् ॥ ६६ ॥