पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ युग्मायुग्मे द्विभक्त्यैकभक्त्या वा तद्विशालती । चतुःस्तम्भं वसुस्तम्भं षोडशस्तम्भकं तु वा ॥ १२२ । सर्वावयवसंयुक्तं मिश्रद्रव्यं तु वा भवेत् । शालासभाप्रपाणां वा मण्डपानां तु मध्यतः ॥ १२३ ॥ प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गसंज्ञितम् । इत्थं यथावदिह तोरणकुड्यनालाः सोपानपञ्जरगवाक्षविशेषकण्ठाः 1:1 बेराणि च प्रतितलं शिखराणि सम्यक् [किषापाद: प्रोक्तानि मण्डपविशेषयुताः प्रपाश्च ॥ १२४३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे तोरणादिलक्षणपटलो द्वात्रिंशः । अथ त्रयस्त्रिंशः पटलः । द्रव्याण्यथ विमानादेः शिला दारूणि चेष्टकाः । लोष्टानि मृत् सुधा चेति षड्विधानि प्रचक्षते ॥ १ ॥ तत्र लक्ष्म शिलायास्तु परतोऽत्र निगद्यते । दार्वादीनां तु पञ्चानां सङ्ग्रहः पूर्वमुच्यते ॥ २ ॥ वर्ज्यास्तु तरवः पूर्वं वक्ष्यन्ते ये सकोटराः । सवल्लीका लताश्लिष्टाः कीटजुष्टाः सकण्टकाः ॥ ३ ॥ सदा पुप्पफलाढ्या वा नृगोदेवाश्रिताश्च ये । बहुपक्षिमृगर्जुष्टाश्चत्यमार्गश्मशानजाः ॥ ४ ॥ वक्राः शुष्काश्च ये भग्नाः सर्वभूतादिसंश्रयाः । पलाशाः कुटजा लोधा बिल्वपीलुशिरीषकाः ॥ ५ ॥ श्लेप्मातकाः कदम्बाश्च कोविदाराः सर्किशुकाः । पथ्याक्षामलकाः पार्थाः स्रुहिनुग्वरणा अपि ॥ ६ ॥ अम्बष्ठाः सप्तपर्णाश्च कारस्करविकङ्कताः । न्यम्रोधोदुम्बराश्वत्वप्लक्षशल्मलितिन्दुकाः ॥ ७ ॥