पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अविच्छेदेन सततं समाधिः पा(शमोचनः) | + + + + + + + + + + + + त एव वा ॥ ८९॥ जिघ्रतो मौनिनो वाचं ब्रुवतः शयितस्य वा । आसीनस्यापि मिषतो मीलिताक्षस्य तिष्ठतः ॥ ९० ॥ जाग्रतः स्वपतो वापि स्वप्नान् वा परिपश्यतः । गच्छतोऽपि यदा चेतः समाधिस्थस्य निश्चलम् ॥ ९१ ॥ करणानां तु संहारादव्यक्तिर्विषयेष्वपि । स योगः परमो ज्ञेयस्तद्वान् योगीन्द्र उच्यते ॥ ९२ ॥ ऐश्वर्याप्यणिमादीनि योगस्यावान्तरं फलम् | अष्टैश्वर्यगुणा योगस्यान्तराया भवन्ति हि ॥ ९३ ॥ ते(ष ? पु)योग + + + + + + + नाभिरोचयेत् । फलं हि मोक्षो योगस्य तस्मात् तदभिरोचयेत् ॥ ९४ ॥ एवं साङ्गोऽत्र योगस्तु समासात् संप्रदर्शितः । संस्मृत्य योगशास्त्रेभ्यः शिवानुग्रहतः स्फु ( टम् ) ।। ९५ ॥ + + + त्र हि मुख्यमित्थमुदितं भोगा यतो वाञ्छिताः पश्वादिप्रविचारचारुविशदज्ञानक्रियायोगतः । अष्टैश्वर्यगुणास्तथैव सुलभं निःश्रेयसं श्रेय (सा) तामीशानशिवोऽभ्यधाद् सुरगुरुः सिद्धान्ततापद्धतिम् ॥ ९६ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे योगपादे प्राणायामादिपटलस्तृतीयः | योगपादः समाप्तः ॥ समाप्ता चेयमीशानशिवगुरुदेवस्य कृतिः सिद्धान्तसारपद्धतिः ॥ शुभं भूयात् ॥