पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे त्रयस्त्रिंशः पटलः । न परावर्तनं कुर्यादष्टपञ्चत्रिमासतः । म्] इत्थं दारोविंधानेन सङ्ग्रहेद् धामकर्मणि ॥ ३४ ॥ स्वीकारः सर्वदारूणां विधिनैव कृतो भवेत् । दारुस्वीकरणम् । अथेष्टकानां करणं सुधा चैव निगंद्यते ॥ ३५ ॥ चिकणा पाण्डराख्या च सलोणा च विगार्हता | चतुर्थी ताम्रफुल्ला तु कर्मयोग्या मृदिष्यते ॥ ३६॥ तुषाङ्गारास्थिपाषाणकाष्ठशर्करलोष्टकैः । वर्जिता सूक्ष्मसिकता ताम्रफुल्लेष्ट कोचिंता || ३७ || तां प्रक्षिप्यावटे मृत्स्नां जानुदनं जलं क्षिपेत् । आलोड्य पद्भिः संक्षोभ्य मर्दयेत् तां पुनः पुनः ॥ ३८ ॥ ततः क्षीरागशैर पत्वक्काथंत्रिफलाम्बुभिः । मदयेन्मासमात्रं तु तत्कर्मकुशलैर्नरैः ॥ ३९ ॥ इष्टकाः कल्पयेत् सम्यग् द्वादशाङ्गुलमायताः । तदर्धविस्तृताः कुर्याद् व्यासरामांश च्छूताः ॥ ४० ॥ त्रिपादोनास्त्वतो वा स्युर्घ ताः परिशोषयेत् । अखण्ड सुलभादौ चुलीं कृत्वानुमारुतम् ॥ ४१ ॥ तत्रेष्टकास्ताः सन्दध्यात् सान्तरं क्रमशश्चिताः | काष्ठैः पलालभाराद्यैराचिताः स्युर्निरन्तरम् ॥ ४२ ॥ बहिराच्छादयेत् सम्य मृत्याच विलेपयेत् । तन्मुखेष्वभिमाधाय दशाहं पक्षमेव वा ॥ ४३ ॥ संस्कृत्य ज्वलने शान्ते समुद्घृत्येष्टकास्ततः । प्रक्षिप्य सलिले वर्षमष्टौ मासान् षडेव वा ॥ ४४ ॥ उद्धरेदिष्टकास्ताः स्युर्विमानादिक्रियोचिताः । इष्टकाः । इष्टकोक्तमृदा तद्वन्मृल्लोष्टकरणं स्मृतम् ॥ ४५ ॥ १. 'क्रे' न. पाठः,