पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्धिविशेषाः] उत्तरार्धे त्रयस्त्रिंशः पटलः । झषदन्तो निजायामांतर्यग्बाहुशि युतः । आधाराधेययोगेन यथाबलशिख युतम् ॥ ८५ ॥ सूकरघ्राणवद्योज्यः सूकरघ्राण संज्ञिते । यथायुक्ति यथायोगं शूलैर्नानाविधैर्युतम् ॥ ८६ ॥ सङ्कीर्णकीलसंज्ञः तः स्याद् वज्राभो वज्रचूडकः । स्वव्यासकर्णाध्यर्थं वा सन्ध्यायामः स्थिते भवेत् ॥ ८७ ॥ ९ उम्भमध्ये न सन्दध्यान्मध्यसन्धिविनाशकृत् । दक्षिणे पे च वामे च स्तम्भचूडान्तरं तु तत् ॥ २८ ॥ सन्धिमध्यं नियोज्यं स्यात् तदेवं सम्पदां पदम् । अन्योन्य सन्धिविद्धं तु शिखाकीलं न वेधयेत् ॥ ८९ ॥ तद्रव्यव्यासमध्यस्था शिखा सम्पद्विनाशिनी । दक्षिणोत्तरयोर्युक्ता शिखा सम्पत्करी भवेत् ॥ ९० n गृहीतस्तम्भावेपुले त्वष्टसप्तषडंशके । शि ।याः कीलकस्यापि विस्तारो भागतो भवेत् ॥ ९१ ॥ एक पङ्किगतस्तम्मेष्वेकाकारास्तु सन्धयः | मिश्रसन्धिर्विनाशाय तस्मान्मिश्रं तु वर्जयेत् ॥ ९२ ॥ स्तम्भसन्धिः । अदीर्घदीर्घद्रव्याग्यां सन्धयः रहिबहिः । अन्तरन्तनियोज्यं स्याद् दक्षिणा दक्षिणा तथा ॥ ९३ ॥ मध्य द्रव्यं यथादीघ हस्वद्रव्येषु पार्श्वयोः । सन्दध्याच्छायितद्रव्ये समं वापि त्र्यं कचित् ॥ ९४ ॥ मूलायोरलङ्कारांस्यक्त्वा सर्वत्र सन्धयेत् । अन्तर्मूलं बहिश्चात्र शयितद्रव्यसन्धिषु ॥ ९५ ॥ अत्र पराशरः 7 "मूलं मूलेन नैर्ऋत्याममेणामं तु शुलिनि । मूलाग्रयोस्तु संयोगः शìयेतेऽमौ च मारुते || नवद्रव्यं नवेनैव जाणं जार्गेन सन्धयेत् । च दारुणा दारु सन्दध्यात् त्वक्सारं त्वचिसारकैः ॥