पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ ईशान शिवगुरुदेवपद्धतौ स्वजातिभिः स्वजातीस्तु सन्दध्यान्न विजातिभिः । शिलाः शिलाभिः सन्दध्यादिष्टकाभिस्तथेष्टकाः ॥ विपरीतं विनाशाय यथोद्दिष्टं सुखावहम् ॥" इति । मयोऽप्याह- इति । “मल्लकीलं तथा ब्रह्मराजं वै वेणुपर्वकम् । क्रमुकं देवसन्धिश्च दण्डकः षष्ठ उच्यते ॥" . द्रव्यद्वयस्य त्वेकत्र सन्धिः स्यान्मल्लकीलकः । त्रिद्रव्यैर्ब्रह्मराजाख्यो वेणुपर्वाब्धिबाणकैः ॥ ९६ ॥ क्रमुकः षण्मु/नेद्रव्यैर्देवसन्धिर्नवाष्टभिः । बहुसन्धि बहुद्रव्यैर्दण्डिकासन्धिरुच्यते ॥ ९७ ॥ स्वस्तिकं वर्धमानं च नन्द्यावर्तमतः परम् । ततश्च सर्वतोभद्रं तत्तदाकारसन्धयः ॥ ९८ ॥ अन्तर्मूलं बहिश्चामं पार्श्वद्रव्येषु शोमनम् । विपरीतं विनाशाय यतस्तन्न समाचरेत् ॥ ९९ ॥ पितामहादिशास्त्रेषु यथादृष्टं पुरातनैः । तथा तत्तत् प्रकुर्वीत सौख्यायुस्संप्रवृद्धये ॥१०० ॥ दार्विष्टकालोष्टसुधाविशेषाः प्रोक्ता यथालक्षणतश्च योगाः । सन्धिः स्थितानामपि शायितानां सन्दर्शितोऽनेकविधो यथावत् ॥ १०१ ।। इति श्रीमदीशान शिव गुरुदेवपद्धती सिद्धान्तसारे उपरिभागे क्रियापांदे दार्वादिलक्षणपटलस्त्रय, स्त्रंशः । अथ चतुत्रिंशः पटलः । वस्त्वारम्भेषु सर्वेषु मानोन्मानप्रमाणवित् । पूर्व स्थपतिरेष्टव्यः शिल्पशास्त्रविशारदः ॥ १ ॥ १. 'व' ग. पाठः,