पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ पुण्याहवाद्यघोषापर्लमे कीलं तु विन्यसेत् । प्रागुक्ते मध्यमे गर्ते स्तूप्यायामे शरांशके ॥ १२ ॥ अंशत्रयमदृश्यं स्याद् दृश्यावूर्ध्वंशकौ यथा । शिलाभिरिष्टकाभिर्वा बघ्नीयात् परितो दृढम् ॥ १३ ॥ एकद्वित्रिद्रव्ययुते तेन ताभ्यां च तैरपि । द्रव्यैराच्छादनं मूर्ध्नि स्तूप्यास्तु परितः स्मृतम् ॥ १४ ॥ सुधयाथ दृढीकृत्य सवल्लीकं सलक्षणम् । पद्ममष्टदलं कृत्वा स्तूपिकां भूषयेत् ततः ।। १५ ।। सौमः कार्पासिकैर्वापि नवैर्वस्त्रैर्महाध्वजम् । 1: [क्रियावाद: स्तूप्यन्तमूलभूम्यादिव्यायतं समविस्तृतम् ॥ १६ । स्तूप्यमे तु ध्वजं बद्ध्व विसृजेदुत्तरामुखम् । सोमेशानेन्द्रदिग्भूमिं यदि पूर्व स्पृशेद् ध्वजः ॥ १७ ॥ शुभदः स्यात् ततोऽन्यस्माच्छान्त्यर्थं जुहुयात् तिलैः 1 सहस्रं संहितामन्त्रैर्वृतेन चरुणा तथा ॥ १८ ॥ कुर्वीत वास्तुहोमं च दद्याद् वास्तुबलिं निशि | स्थपतिं च तथाचार्य हिरण्यवसनादिभिः ॥ १९ ! तोषयेद् ब्राह्मणांश्चान्यांस्तक्ष्णः कर्मकरानपि । स्तूपीषिन्यासः | अथ कुम्भं तु सौवर्ण राजतं शौल्बमेव वा ॥ २० ॥ सौघं वा मार्त्तिकं वापि गृहीत्वा लक्षणान्वितम् । सुदिनर्क्षमुहूर्तादौ स्नात्वाथ स्थपतिः सुधीः ॥ २१ ॥ भूषितो बस्त्रहेमाद्यैः प्राङ्मुखोदङ्मुखोऽपि वा । कुम्भाधारे तु विन्यस्य हेमरत्नौषधीरसान् ॥ २२ ॥ स्तृपिकाच्छादकं कुम्भं स्तूप्याकारशिखं न्यसेत् । ऋजुमालाप्रविन्यास मेकं त्रीन् बाथ पञ्च वा ॥ २३ ॥ तदानुगुण्यतो मूर्ति मूर्तीर्वा मन्त्रतो न्यसेत् । एकस्मिञ्छिव एव स्यात् त्रये ब्रह्महरीश्वरोः ॥ २४ ॥ १ 'रानू' ग. पाठः